________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [तृतीय सर्गः न लोकमार्गे प्रणयन्ति सङ्गं गुरून् पुरस्कृत्य पथि व्रजन्ति / श्रुतं प्रयत्नेन विभावयन्ति द्रव्यापदादावुपयन्ति धैर्यम् // 233 // आलोचयन्त्येष्यदपायजालमजातयोगेषु दृढं यतन्ते / चित्तस्य विश्रोतसिकां त्यजन्ति योगोपचारान् परिशीलयन्ति // 234 // परं पुमांसं कलयन्ति चित्ते बध्नन्ति तत्रैव धृति पवित्राम् / बहिश्च विक्षेपरतिं त्यजन्ति कुर्वन्ति तत्प्रत्ययतानमन्तः // 235 // बाढं यतन्ते शुचियोगसिद्धौ ध्यानं च शुक्लं परिपूरयन्ति / पश्यन्ति देहादिविविक्तरूपं स्थिरं लभन्ते परमं समाधिम् // 236 // तैरुत्तमैः संयतपुण्डरीकैदृढीकृतं तत्तदुपायविद्भिः / यदप्रमादाभिधमन्तरङ्गं यन्त्रं तदन्तर्द्विषतः पिनष्टि // 237 // अनेन सूरेर्वचसाऽनिलेन वृद्धोऽथ शुद्धाध्यवसायवह्निः / मनीषिणः कर्मवनं ददाह स भावदीक्षा सुगुरोर्ययाचे // 238 // . .. भूमानथ प्राह ममाऽपि युद्धक्रुद्धारिसम्मर्दनलम्पटस्य / क्षोभाय याऽऽदित्सति तां महात्मा दीक्षां महाराज्यवदाशु कोऽयम् ? // 239 / / सूरिभाषेऽयमतिप्रसिद्धः शुभावलीकर्मविलासपुत्रः / गुणैर्गरिष्ठस्तव विस्मृतः किं नेत्रद्वयासेचनकः शशीव // 240 // अयाचत श्रावकधर्मरत्नमत्रान्तरे मध्यमधीxपोऽपि / ........ यथास्थित लक्षणलस्तमुक्त्वा ददौ तयोनिःस्पृहसार्वभौमः // 24 // प्रणम्य राज्ञाऽथ मनीषिदीक्षादानोद्यतः सूरिरिदं ययाचे। . अनेन दीक्षा कलितैव भावाद् ममाऽनुजानन्तु मनोऽनुरूपम् / / 242 // ततः सुबुद्धिनिजगाद राजन् ! द्रव्यस्तवे जोषमुपैति साधुः।। फलोपदेशादनुमन्यते तु तदत्र कार्य स्वयमेव युक्तम् // 243 // . अथाऽर्थयित्वा समयप्रतीक्षां विलम्बशाली प्रणयाद् मनीषी / अकार्यत स्नात्रमुदारचैत्यबिम्बस्य पूर्णेन महोत्सवेन // 244 / / ... यः स्नात्रकुम्भादुदपादि तेन धर्मः स पीत्वाऽस्य भवाम्बुराशिम् / यशांसि कुम्भोद्भवताभवानि ततान कुन्देन्दुसितानि लोके // 245 // आरोपितोऽसौ जयकुञ्जरेऽथ स्वयं नृप'छत्रधरोऽस्य जातः / शुभश्रियाऽध्यस्ततनुर्जगाम पुरं जनौधैरभिनूयमानः // 246 / / असङ्गभावाद् बुभुजे सुखानि राज्ञोपनीतान्यथ राजहर्थेि / मुमोच मुख्यः कृतिनां गुणौधैः क्रीतो हि राजाऽस्य न भृत्यभावम् // 247 //