________________ प्रो०१७-२०२। - वैराग्यरतिः। तस्मान्महाराज ! सुदुर्जयानां मन्तुः समग्रोऽप्ययमिन्द्रियाणाम् / / उपेयवाञ्छाविपरीतवृत्तिनृणामुपायेष्विह या प्रवृत्तिः // 188 // उक्त्वेति सामान्यत एव सूरिर्मनीषिबोधाय जगौ विशिष्य / दूरे किलाऽन्यानि जगज्जयाय राजन्नलं स्पर्शनमेकमेव // 189|| इदं हि तीक्ष्णेषुरिवाङ्गभाजां हृदि प्रविश्यैव भिनत्ति मर्म / व्याप्यैव देहं प्रवितीर्णदाहं प्रत्याहृते?र्लभतां तनोति // 190 // राजाऽऽह किं सन्ति न सन्ति वा तज्जये समर्था जगतीह लोकाः ? / गुरुर्जगौ ते विरलास्तु सन्ति तत्रापि हेतुं शृणु सावधानः // 191 // चतुर्विधाः सन्ति जघन्यमध्योत्कृष्टास्तथोत्कृष्टतमाश्च लोकाः / अत्युत्तमास्तत्र हि ते निरस्तं येरेतदासाद्य जिनागमार्थम् // 192 // गृहेऽपि ते ब्रह्मरता विलौल्या दीक्षां पुनर्भागवतीमवाप्य / भूस्वाप-लोचादिविशिष्टकष्टैर्निर्हृय तन्मोक्षसुखं लभन्ते // 193 / / आकर्ण्य कर्णामृततुल्यमेतद् वचो विचारं विदधे मनीषी। गुरुर्जगौ स्पर्शनमीदगेव बोधप्रभावो निजगाद यादग् // 194 // नूनं तदेतत् पुरुषच्छलेन प्रतारणायोपनतं जनानाम् / चिक्षेप यश्चैनमसङ्गयन्त्रे महोत्तमोऽसौ भवजन्तुरेव / / 195 / / इत्युक्तभावार्थरसज्ञमग्नः शुश्रूषया विस्मितमीक्षमाणः / मनीषिणं मध्यमधौर्बभाषे किं तत्त्वमुत्प्रेक्य सुभावितोऽसि ! // 196 // स प्राह मित्राऽयमगूढ एव भावश्चमत्कारकरो न किं स्यात् ? / यदर्जयं यच्च दुरन्तदोषं तवैव तत् स्पर्शनमित्रमुक्तम् // 19 // विसिस्मिये मध्यमबुद्धिनापि बालो न किञ्चित् कलयाश्चकार / दत्तैकदृष्टिर्मनुजेशपल्यामाचार्यवाक्यश्रुतिविस्मितायाम् // 198 // स्मिताम्बुपूरे घनकेशपाशध्वान्ते च मग्नं स्तनपर्वतेऽस्याः / भग्नं च भिन्नं च कटाक्षबाणैर्मनोऽस्य पर्याकुलतां जगाम // 199 / / न ब्रह्मणो ब्रह्मविदः किलेयं स्मरस्य शृङ्गारविदस्तु सृष्टिः / अक्षितैर्मामियमीक्षमाणाऽभिवाञ्छतीत्येष मृषापगर्वम् // 20 // सुरिर्बभाषे कथितं स्वरूपमत्युत्तमानां तदथोत्तमानाम् / ब्रवीमि यैः स्पर्शनमेतदाप्य मानुष्यकं शत्रुतयाऽवबुद्धम् // 201 // बोधप्रभावेन च मूलशुद्धिं विधाय येऽस्मिन् चकिता भवन्ति / / उपेक्षितायोग्यजनाश्च मार्गावतारदक्षाश्च निजाश्रवानाम् // 202 //