________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [तृतीयः सर्गः और्वानलो लोभमहार्णवस्य महौषधिः क्रोधभुजङ्गमस्य / वज्रं स्मयादेरनवद्यविद्यावतारतीर्थं निकृतिद्रुमाग्निः // 174 // अत्रान्तरे स्पर्शनविप्रियस्य मनीषिणः कर्मविलासराजः / इच्छन् प्रदातुं कुशलानुबन्धं व्यापारयामास भृशं तदम्बाम् // 175 // दध्यौ च यद्यप्ययमेति नित्यं भोगानभिष्वङ्गसुखं तथापि / छायैकदानादिव निर्जरद्रो स्माद् यशस्तेन बहु प्रदेयम् // 176 // अधिष्ठितोऽसौ निजयोगशक्त्या मात्राऽथ पित्रा विहितप्रसादः / " सिक्तोऽमृतेनेव गताङ्गतापो गन्तुं प्रवृत्तो रुचिरं वनं तत् // 177 // आकारयामास स मध्यबुद्धिं नृपेण तस्यापि च संज्ञिताऽम्बा / सा तुल्यवीर्येति विचित्रकार्या तनौ तदा मध्यधियः प्रविष्टाः // 178 // ऐच्छत् ततः सोऽपि च तत्र गन्तुं बालो बलामोटिकया प्रवृत्तः / त्रयोऽपि तत्रोपगता विशालं प्रमोदमौलिं ददृशुर्जिनौकः // 179 // जिनेन्द्रबिम्बं प्रणिपत्य तत्र मनीषिणा दक्षिणभागनिष्ठः / आगामिभद्रेण गुरुर्ववन्देऽनुरोधतो मध्यधियाऽपि तस्य // 180 // बालः पुनः स्पर्शनमातृयोगात् तस्थावनम्रोऽथ मुदा समीयुः / सुबुद्धिमन्त्री हरिमईनश्च राजा च देवी स्मरकन्दली च // 181 // तेषूपविष्टेषु विधेः प्रणम्य धां गिरं ज्ञानरतिर्दिदेश / तत्त्वावसायाहतप्रमाथिमहाविपर्यासनयप्रबन्धाम् // 182 // . अत्रान्तरे प्राह महीमहेन्द्रः स्वामिन् ! किमादेयमिहाऽस्ति लोके / जेगौ गुरुभूधव ! धर्म एव सतामुपादेयतया प्रसिद्धः // 183 // तत् किं न सर्वे कलयन्ति धर्ममिति ब्रुवाणं नृपमाह सूरिः / हितेऽपि दुष्टेन्द्रियमोहितत्वात् प्रवर्त्तते न स्वरसेन लोकः // 184 // उन्मत्तमासाद्य भृशं प्रहृष्यन्नुधूलयन् भूतिमुदारशक्तिः / अलङ्कृतो भोगिभिरिन्द्रियोघो नृणां स्फुटं शङ्कर एव भाति // 185 / / पथप्रवृत्तानपि शास्त्रपाठकशाप्रहारानवधीरयन्तः। हृत्वा जनानिन्द्रियशूकलाश्वा नयन्ति संसारवनं दुरन्तम् // 186 // धृत्वा किलाऽग्रेषु कराङ्गुलीनां ये दण्डवत् क्ष्मामपि नाटयन्ति / तेऽपीन्द्रियैर्नाटितमिन्द्रमुख्या नात्मानमुद्धर्तुमहो ! समर्थाः // 187 // 1. सूरिभाषेऽनघधर्म //