________________ ग्लो० 145-173] वैराग्यरतिः। आधूय मूर्धानमथाऽऽह बालो महार्थसिद्धौ क इवाऽन्तरायः ? / दुःख कियन्मे ? यदि तां लभेऽहं प्राणैः क्रयं साहति तद्वदिष्टा // 159 // तं कालदष्टं परिभाव्य हस्ते नीत्वा ययौ मध्यधियं मनीषी।। जगौ च लोहेऽत्र निविश्य मूढ ! कथं तितीर्व्यसनाम्बुराशिम् ! // 160 // स प्राह सम्यग् विहितं त्वयेदं ममालमेतेन तवामतेन / तातादयः किं ननु जानतेऽदो ? जगौ मनीषी जगदेव वेत्ति // 161 // तत् कीदृशं चित्तमभूदिहार्थे तातस्य मातुश्च तवेति पृष्टः / जगौ मनीषी मम निर्गुणेऽभूद् बालेऽत्र माध्यस्थ्यमबालभावात् // 162 // सङ्क्तिश्यमानस्य दया तवोचैरास्था निजात्मन्यपमित्रहानात् / हर्षो गुणाढ्ये भवजन्तुधीरे तातस्य चैकः परिदीर्घहासः // 163 / / सम्पद्यते यन्मयि कोपिते तद् बालो ह्यवापेति जहर्ष तातः / सामान्यरूपा तु पराभवौधे गतः क पुत्रेति शुशोच बाढम् // 164 // प्रीता मदम्बा तनयस्य नाभूदपाय इत्याप पुरं तु हर्षम् / बालस्य दुःखात् करुणां त्वदर्तेर्गुणाग्रहित्वं मयि शान्तदुःखे // 165 // श्रुत्वेत्यदो मध्यमबुद्धिरन्तर्विचारयामास हहाऽस्य दुःखे / क्षारः क्षते विश्वजनापवादो ममाऽप्युपेक्ष्योऽयमतोऽस्तु नित्यम् // 166 // सस्पर्शनाऽम्बा मुदिताऽथ बालं प्रोत्साहयामास न साधुखिन्नः / मनीषिवत् सुष्टु न वञ्चितोऽसि भोगान्न भीतोऽसि गिरा जनानाम् // 167 // अथ प्रदोषे गत एव बालोऽवधीरितो मध्यमबुद्धिनाऽपि / अलक्षितो राजगृहे प्रविष्टो ददर्श राज्ञी तनुमण्डनोत्काम् / / 168 // शय्यां स शून्यां सुखमध्यशेत दैवात् तदा भूपतिराजगाम / कदर्थयामास कृतापराधं क्रूरैनैरैस्तं नरकाभदुःखैः // 169 // त्रिकादिमार्गेऽथ नृपाज्ञयाऽसौ बम्भ्रभ्यमाणः खरपृष्ठनिष्ठः / उल्लम्बितस्तुङ्गतरोः शिखायां दिनात्ययेऽगानगरं च लोकः // 170 // दैवात् तदानीं त्रुटितश्च पाशः पपात भूम्यां च मुमूर्छ बालः / / लब्ध्वा च संज्ञां पवनान्निशाया यामे गते स्वीयगृहं जगाम // 171 // वृत्तान्तमाकर्ण्य मनाक् तमासीत् प्रेम्णो लवान्मध्यधियो विषादः / मनीषिवाक्यस्मरणप्रमोदाच्चित्तेऽस्य माध्यस्थ्यमथोल्ललास // 172 // अथान्यदा स्वीयविलाससंज्ञे सूरिखने ज्ञानरतिः समेतः / तृष्णालतायाः परशुर्मनीषाचक्रस्य नाभिर्नयसिन्धुचन्द्रः // 173 //