________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [ तृतीयः सर्गः जगौ च बालं ननु देवशय्यास्वापो न युक्तस्तव मित्ररूप ! / / उपेक्षितं तस्य वचोऽपि तेन तद्वयन्तरोऽथ प्रचुकोप तस्मै // 145 // बद्ध्वा कृतः कण्ठगतासुरेष प्रमोचितो मध्यमबुद्धिनाऽथ / भृशं पतित्वा पदयोर्दयोच्चस्वान्तेन सर्वैरपि गर्हितोऽसौ // 146 // शिक्षाऽसहं कर्मविलासराजस्तं दुर्विनीतं परिभाव्य रुष्टः / अवारयत् स्वं परिवारमेवं विषद्रुमेऽस्मिन्न हितं विचिन्त्यम् // 147 // पृष्टोऽन्यदा मध्यमबुद्धिनाऽसौ कचिन्निराबाधमिदं वपुस्ते ? / स प्राह बाधा न शरीरके मे चित्ते परं मन्मथकन्दली या // 148 // दध्यावथो मध्यमधीर्मनोऽस्य स्थाने यदेषाऽतिशयस्य भूमिः / द्वारि स्थितोऽस्याः सुखमन्वभूवं स्पर्शस्य यत् कापि हि तन्न लभ्यम् // 149 / / परं परस्त्रीगमनं कुलस्य कलङ्क इत्येनमवारयत् सः / स प्राह नायुर्मम तां विनेष्टं मौनं ततो मध्यमधीश्चकार / / 150 // गन्तुं प्रवृत्तोऽथ स राजमार्ग तमन्वगाद् मध्यमधीर्निशायाम् / निनाय कश्चित्पुरुषो मयूरबन्धेन बद्ध्वाऽथ तमभ्रकुक्षौ // 151 // कृष्टाऽसिरुचैरनु तं दधावे स्नेहान्वितो मध्यमधीर्निशायाम् / नासादितोऽसौ गतया निशाऽपि दिनानि सप्तास्य तथा व्यतीयुः // 152 / / जीर्णेऽधकूपेऽथ कुशस्थलेऽसौ प्रक्षेप्तुमैच्छद्विरहार्दितः स्वम् / निवार्य पृष्टश्च स नन्दनेन हेतुं जगौ मित्रवियोगमत्र // 153 // स प्राह तुष्टोऽस्मि गृहाण मित्रं यमाशु मांसास्रहुतीः प्रदातुम् / . . विद्याधरः शत्रुविनाशिविद्यासिद्धयै हरिश्चन्द्रनृपस्य जहे // 154 // ममाप्तिोऽसावधुनैव राज्ञा तवैव भाग्यादिति याहि नीत्वा / नीतो गृहे मध्यधियाऽथ बालः क्रमेण जातो विगतक्षतार्तिः // 155 // पृष्टोऽथ दुःखं तव कीटगासीदित्यब्रवीदष्टशते जपानाम् / दिनानि सप्ताहुतयः प्रदत्ताः पृथक् पृथग् मे रुधिरेण पूर्णाः // 156 // 'निरीक्ष्य राजा करुणं रटन्तं दन्तैर्दयामयि शीञ्चकार / विद्याभृताऽवार्यत नैष कल्पस्तेनार्पितं मे नरकस्य दुःखम् // 15 // समागतोऽन्वेष्टुमुदन्तमस्य लोकानुवृत्त्यापि मनीषिनामा / शुश्राव तन्मुग्ध इवाऽनुभूतमवारयत् स्पर्शनपापसङ्गम् // 158 // . 1. मां प्रक्ष्य राजा //