________________ तृतीयः सर्गः महोपाध्यायश्रीयशोविजयगणिविरचिता प्रवर्धमानं च निवार्य दधे शुक्लेन तद्धस्ततलप्रहारात् // 116 // तदाह सिद्धान्तरहस्यवेदी न तत्त्वशुद्धेषु भवत्सु दोषः / / किन्तु द्वितीयं खलु डिम्भरूपं निबन्धनं दूषणसन्ततीनाम् // 117 // अज्ञानमेतद् धनकष्टरूपं प्रवर्तकं मोहपरिच्छदस्य / / न भोगतृष्णाऽपिं तनोति मूलाज्ञानं विना दुष्टतरां प्रवृत्तिम् // 118 // अपारसंसारसमुद्रमध्ये गले शिलेयं पततां जनानाम् / इदं हि साक्षान्नरकस्य कुण्डं छन्नः शिवाध्वन्ययमन्धकूपः // 119 // इतश्च यत् कृष्णतरं द्वितीयं विनिर्गतं तत् खलु पापनाम / संसारचक्रे वसतां जनानां संक्लेशजालस्य तदेव मूलम् // 120 // ... शुक्लेन डिम्भेन निवारितं तत् प्रवर्धमानं पुनरार्जवेन / इदं हि शुद्धाशयहेतुभूतं पापानुबन्धं प्रसभं निहन्ति // 121 // ब्रूते यदेतत् परिरक्षितानि मयैव यूयं तदतः प्रमाणम् / अज्ञानजं पापमपोह्य यस्मान्मार्गानुसारित्वमिदं विधत्ते // 122 // .. . अनार्जवं दुष्कृतजन्मभूमिरजन्मभूमिस्तु विपर्ययोऽस्य / अनार्जवं संयमधूमकेतुर्विशुद्धिहेतुर्भुवमार्जवं तु // 123 // किं भोगदावानललब्धदाहैः किं वा कृतज्ञानसुधावगाहैः ? / भाव्यं मनुष्यैरिह यद्धितं वो भृशं भजध्वं तदृजुस्वभावाः // 12 // आस्था सतां का परिणामतापसंस्कारदुःवर्गहनेऽत्र लोके / / समूलमुन्मूलितदुःखवल्लिः सदा सुखी साधुजनं विना कः ? // 125 // .... इदं निशम्यर्जुमुखाः प्रबुद्धा ययाचिरे चारुदिनं व्रताय / तदेव चादशि मुनीश्वरेण तत्रैव दीक्षां जगृहुस्तदा ते // 126 // तेभ्यः प्रणेष्टे खलु कृष्णडिम्मे शुक्लं पुनस्तत्तनुषु प्रविष्टम् / तद्धन्यतां चात्मविपर्ययं च दध्यौ तदा व्यन्तरयुग्ममुच्चैः // 127 // गुरून् मुनीश्च प्रणिपत्य तुष्टौ सम्यक्त्वलाभादथ दम्पती तौ / स्थानं गतौ स्वं वपुषोः प्रविष्टा तयोस्तदानीमथ भोगतृष्णा // 128 // परं न सा दोषविवृद्धयेऽभूत्तचेतसोर्दर्शनशुद्धिभाजोः / पूर्वप्रवृत्ताऽपि कृतौषधस्य रुजेव पथ्यान्नभुजः शरीरे // 129 // अथान्यदा तौ रहसि स्थितौ प्राग् दुश्चिन्तिते कालविलम्बपक्षम् / सिद्धान्तयन्तौ स्म मिथोऽभिलापाद् वित्तः स्वनाम्नोश्चरितार्थभावम् // 130 // शितिडिम्भरूपे शुक्लं // 1.