________________ [तृतीयः सर्गः महोपाध्यायश्रीयशोविजयगणिविरचिता मनीषिणस्त्वेष तथा न चक्रे स्वभावभेदाकलनाद् विकारम् / दाहावहो भस्मकवज्जनानां लौल्यं हि दोषो न धृतिस्तु भोगे // 87 // प्रदर्शिता द्यौर्भवता ममेति बालस्य वाचा स दधौ प्रमोदम् / मनीषिणस्त्वस्वरसां निशम्य हीगस्तदानीमुपचारवाचम् // 88 // निशम्य बालस्य तुतोष माता विजृम्भितं स्पर्शनयोगशक्तेः / मनीषिणः खेदमियाय किन्तु माध्यस्थ्यमालक्ष्य सुशोच नोच्चैः // 89 // बालस्य रुष्टोऽथ परस्य तुष्टो निशम्य तत् कर्मविलासराजः / जहाति बालोऽथ कुलस्य लजां दिवानिशं स्पर्शनबद्धरागः // 90 // गम्यामगम्यां च न वेत्ति काचिन्नारीषु गृद्धो न बिभेत्यनीतेः / नापेक्षते चैष गुरूपदेशं स्वहास्यतां नाकलयत्यशङ्कः // 91 // निवारयिष्यन्नहितप्रसङ्गं कृपापरः स्पर्शनमूलशुद्धिम् / जगौ मनीषी पुरतोऽस्य तत्तु गतं लुठित्वा किल पार्श्व एव // 12 // दृष्टार्थरागी करभो ने वेत्ति रसं ह्यदृष्टार्थकथासितायाः / बालेरणायासमिति प्रहाय तूष्णीं स्थितः स्वार्थपरो मनीषी // 93 // अथान्यदा कर्मविलासराजसामान्यरूपी तनयः समेतः / तं स्पर्शनस्तौ च समालिलिङ्गुलेरितः स्पर्शनमेष भेजे // 14 // तेनापि विस्मापितमस्य चेतो जगौ मनीषी पुनरस्य दोषम् / फलानुभूतेरविशङ्क्यभावाद् द्वयोर्विलासे स बभार शङ्काम् // 95 // . अम्बां स पप्रच्छ विशिष्य तत्त्वं जिज्ञासमानोऽथ जगाद साऽपि / द्वयानुरोधादविरोधभाजा ग्राह्यस्त्वयेद्धोऽवसरे हि पक्षः // 96 // अर्थद्वये भेदिनि संशयालुः कुर्वीत यः कालविलम्बमेव / मनोरथः सिद्धयति तस्य नूनं सिद्धो यथोच्चैमिथुनद्वयस्य / / 97 // तथाहि - ऋजोर्नृपस्य प्रगुणाख्यदेव्याः पुत्रोऽस्ति मुग्धः स्मरतुल्यरूपः / तस्यास्ति भार्याऽकुटिलाभिधाना पुलोमपुत्री रतिरूपजैत्री // 98 // मुग्धोऽन्यदा नूतनचूतवल्लीविलासरम्ये विपिनं वसन्ते / गतः सभार्यः कुसुमोच्चयाय प्राक्पुष्पपूर्त्यागमनं नियम्य // 99 // इतश्च कालज्ञ-विचक्षणाख्यं समागतं व्यन्तरयुग्ममत्र / कालज्ञचेतोऽकुटिलां निरीक्ष्य क्षुब्धं रिंसोच्छूितफेनमासीत् // 100 // विचक्षणाया अपि मुग्धरूपे मग्नं मनः कूप इवाश्मखण्डम् / द्वाभ्यां द्वयोर्वञ्चनतत्पराभ्यां रूपं परावृत्य मुदोऽनुभूताः // 101 //