________________ प्रलो०-१४-८६] बैराग्यरतिः / - पृष्टोऽस्य हेतुं पुरुषो विपाको निर्बन्धबद्धोऽत्र तदाऽऽ[च चक्षे / जगज्जिगोषुः स्वनरानमात्यः प्राक् स्पर्शनादीन् प्रजिघाय पश्च / / 73 / / / / काष्टा परा साहसिकाग्रिमाणां दुर्दान्तवर्गस्य निदर्शनं च / .. अवार्यधैर्यप्रभवः परीक्षास्थानं ध्रुवं ते परवञ्चकानाम् // 74 // . जगजितप्रायममीभिरुच्चस्तान् स्पर्शनादीनभिभूय चैकः / / सन्तोषनामा कतिचित् प्रसह्य मुक्तौ नगयाँ मनुजान्निनाय / / 75 / / श्रुत्वेति सन्तोषजयाय राजा प्रगल्भतेऽसौ परिवारयुक्तः / पराभवं स्वस्य भटाः पदातेस्तेजोऽभिरामाः कतमे सहन्ते ? / / 76 // गतो महामोहमहीन्द्रनाम्नो नृपोऽथ तातस्य सपादमूलम् / दृष्टः स तेनासमलम्बमानरजस्तमोभ्रूयुगलाभिरामः // 77 // सितास्मिताश्मश्रुधरः प्रकम्प्राऽविद्याजराजीर्णशरीरयष्टिः / विशालतृष्णाभिधवेदिकायां धर्मस्थितिव्यत्ययविष्टरस्थः // 78 // पृष्टं शरीरे कुशलं नतेन प्रोक्ता च तेन प्रकृतप्रवृत्तिः / / जगौ महामोहनृपोऽथ युक्तो ममैव वृद्धस्य रणाभियोगः // 79 // यशःप्रवाहेन रणे हि वृद्धाः प्रक्षालिताऽशक्तिकलङ्कपङ्काः / / दीप्तिं परां यान्ति धनु तस्तत् प्रस्थानमस्थानमुखं ममेदम् // 80 // इदं महाभोहनृपोऽभिधाय रागादियुक्तश्चलितो जयाय / कोलाहलोऽयं तदिति प्रतीहि गच्छाम्यहं चाग्रबले नियुक्तः // 81 // लब्ध्वा ततः स्पर्शनमूलशुद्धिं समागतोऽहं भवतः समीपम् / सन्तोषमाकर्ण्य सदागमस्य स्थाने तु वर्ते हृदि संशयालः // 82 // इदं निशम्यैव जगाम बोधः सह प्रभावेण मनीषिपार्छ / वृत्तान्तमाचष्ट यथोपनीतं तुष्टिं [च] पुष्टिं च ययौ ततोऽसौ // 83 // पृष्टोऽन्यदा स्पर्शन एव तेन सदागमेनैव कदर्थितस्त्वम् / स प्राह वाचैव स मेऽपकारी व्यापार्य सन्तोषमतीवदुष्टम् // 84 // अथास्तशङ्को विषयाभिलाषभृत्यं जगद्वश्चनसावधानम् / जानन्नसौ स्पर्शनमन्वतिष्ठत् स्वार्थाय विस्रम्भमनेन बाह्यम् / / 85 // अथान्यदा देहमनुप्रविश्य बालस्य बाढं निजयोगशक्त्या / स स्पर्शनोऽवाच्यरसानुविद्धां वाञ्छां मृदुस्पर्शगतां वितेने // 86 // 1. रुचैरत्रान्तरे तानभिभूय चौरः / सन्तोष //