________________ [तृतीयः सर्गः महोपाध्यायश्रीयशोविनयगणिविरचिता कृतव्यलीकेऽपि न तत्र मेऽभूद् विपर्ययः स्नेहविजृम्भितस्य / / मनागसावप्यनुयाति मां च सदागमासन्निहितः कदाचित् // 58 // अथान्यदा तेन सदागमस्य वचः पुरस्कृत्य कदर्थितोऽहम् / . यास्याम्यगम्यं भवतः पदं द्राग् इतीरयित्वा स जगाम मोक्षम् / / 59 // मित्रस्य तस्याहमसौ वियोगान्मतुं प्रवृत्तोऽस्म्यसुखात्ययाय / इतीरिते स्पर्शनपूरुषेण बालोऽब्रवीत् तं प्रतिबन्धबुद्ध्यै // 60 // .. निदशेनं त्वं किल सज्जनानां स दुर्जनानां भवजन्तुरेव / प्रतारकाणां च सदागमोऽसाविति त्वयि स्नेहपरोऽस्मि बाढम् // 61 // तेनापि मैत्र्यं प्रतिपन्नमस्य विचिन्तयामास पुनर्मनीषी / सदागमस्त्याजयितुं यतेत हातुं न मित्रं सहजं सुधीश्च // 62 // तत् स्पर्शनोऽयं ननु कूटभाषी बालेन बालोचितमेव तेने / ध्यात्वैवमेतेन दधौ स मैत्रीमाभासमात्रान्न तु चित्तभावात् // 63 // न्यगादि ताभ्यामिदमाशु पित्रोर्वृत्तं पिता प्राह शुभं व्यधायि / .. सदातनः स्पर्शननिर्मितेऽर्थे तस्य स्वभावः प्रतिकूलवृत्तिः // 64 // बालस्य माता तु तुतोष यस्मात् सा स्पर्शनाधीननिजेष्टसिद्धिः / मनीषिमाता तु बभार खेदं स्मृत्वा चिरं तद्विहितव्यलीकम् // 65 // बालस्ततः स्पर्शनबद्धरागो हृदा सदाऽऽस्ते चकितो मनीषी / सुखं न विश्रम्भविनाकृतं स्यादित्यङ्गरक्षं स जगाद बोधम् // 66 // त्वयास्य कार्याऽनघमूलशुद्धिर्यथा भवेन्मेऽवितथोऽवभासः / तेनाथ मुक्तः प्रणिधिः प्रभावो भ्रान्त्वा समेतः स जगाद सर्वम् // 67 // नाप्ता प्रवृत्तिर्बहिरङ्गदेशे मया गतेनेति गतोऽन्तरङ्गे / स्मयाकरः पातकसम तत्र दृष्टं पुरं राजसचित्तनाम // 68 // अश्रेयसां राजपथः पृथूनां कल्याणमार्गाचलवज्रपातः। लुण्टाकचूडामणिरुग्रवीर्यस्तत्रेक्षितो रागमृगेन्द्रराजः // 69 // परानपेक्षोऽभिमतप्रवृत्तौ जगद्वशीकर्तुमलम्भविष्णुः। पापप्रकारो पटुधीरमात्यो दृष्टोऽस्य जिष्णुर्विषयाभिलाषः // 70 // अत्रान्तरे च ध्वनदध्वकर्षि मिथ्याभिमानादिरथप्रथाढ्यम् / गर्जन्ममत्वादिगजं प्रधावदसंयमायुद्धतवाजिराजि // 71 // मदातिरेकोत्सुकचापलादिपदातिकन्दर्पकृतप्रयाणम् / विलास-हासादिविचित्रतूर्यकोलाहलं तन्मिलितं बलं द्राक् / / 72 //