________________ विभाग] नमस्कार स्वाध्याय। . "सिरिवीरपढमसीसो, सोहम्गमहानिही सुअसमुद्दो / नाणाविहलद्धिधरो, सिरिगोयमगणहरो जयइ // 40 // " 33. स्वः / सुष्ठु अर्वन्ति अगम्यं स्थानं मोक्षमपि यावद् गच्छन्तीति स्वर्वाः / अतिशयिगमनशक्तिभाज इत्यर्थः / सप्तमपृथ्वीगमनयोग्यत्वेऽपि तत्कालं केवलज्ञानोत्पत्त्यादिसिद्धिगमनयोग्याः, प्रसन्नचन्द्रराजर्षिवत् / "वीरजिणकहियसत्तमपुढवीसव्वट्ठसिद्धिगइजोग्गो। नंदउ पसन्नचंदो, तक्कालं केवलं पत्तो // 41 // " (5-65) 34. शर्वाः / शर्वन्ति गच्छन्ति ज्ञानाद्युपसंपन्निमित्तं गुर्वन्तरसमीपमिति शर्वाः, श्रीआर्यरक्षितादिवत् / "तोसलिपुत्तायरियाण सीसरयणं गुरूणऽणुनाए। 10 सिरिअज्जरक्खियमुणी, सिखियरंते सुअं भणिओ // 42 // " ___35. साः / सर्व्यन्ते गम्यन्ते धर्मतत्त्वार्थिभिराश्रीयन्ते इति साः / चिलातीपुत्रेण मार्गतटस्थसाधुपाचे गत्वा समासेन धर्मतत्त्वे पृष्टे तदुपदेशकचारणश्रमणसाधुवत् / "इत्थिवहस्सवसाणे, चिलाइपुत्तो मणम्मि उव्विग्गो / पुच्छित्तु धम्मतत्तं, मुणिपयठाणे ठिओ अचलो // 43 // " 15 ____36. पुनः साव्याः / अविर्मेषस्तस्य आ लक्ष्मीः, अरस-विरसाहारभक्षणजलपङ्कभीरुत्व-शान्तत्वलक्षणा अव्या तया सह वर्तन्ते ये ते साव्याः / श्रीवीरप्रशंसिततपोरूपलक्ष्मीकः काकन्दीपुरीयधन्यसाधुवत् / "बत्तीसं जुवइवई, जो काकन्दीपुरीइ पव्वइओ। छठुस्स सया पारणमुज्झियमायंबिलं जस्स // 44 // (5-128) वीरपसंसियतव-रूव-लच्छि( द्धि ) नवमाससुकयपरियाओ / सो धन्नो सव्वटे, पत्तो इक्कारसंगविऊ // 45 // " (5-129) ___37. साप्याः / आपो जलं तस्य आ लक्ष्मीः, सहजनैर्मल्य-तापशान्ति-लालित्य-तृष्णाविच्छेदमलविशुद्धिलक्षणा या, तया सह वर्तन्ते ये ते साप्याः, / ऋजुता-क्षमा-मार्दव-विषयवैमुख्य-केवलज्ञानोत्पत्तिकलितकूरगडुकमुनिवत् / “सा कावि खमा तं किंपि मद्दवं अज्जवं च तं किंपि / - जह कूरगडू अ महेसिणो समत्ताइं कज्जाइं // 46 // " 38. शव्याः / शः शर्वः, विर्विष्णुः, अः अजः स्वयम्भूः, आद्यवर्णैः शव्याः, शिव-विष्णु-स्रष्टारः, तत्तुल्याः, मिथ्यात्वाविरति-कषायादीनां स्वदोषाणां संहारकत्वेन तमोगुणमयत्वात् शर्वसदृशाः, जगज्जन्तुपालकत्वेन सत्त्वगुणमयत्वाद् विष्णुसमाः, सम्यग्ज्ञान-दर्शनादीनामात्मगुणानामुत्पादकत्वेन रजोगुणमयत्वाद-30 जतुल्याः। 'मिच्छामि दुक्कडं' वत् प्रथमाक्षरैः संज्ञा / श्रीरामचन्द्रादिमुनिवत् / 5 25 www