________________ 32 नमस्कारान्तर्गत-पदविशेषानेकार्थाः / [प्राकृत 26. स्राव्याः / स्रावो द्रुः कर्ममलगालनं स्व-परेषां दुष्टरक्तस्राववत् , तत्र साधवः 'तत्र साधौ' यः, साव्याः कर्ममलापनयनसमर्था इत्यर्थः / प्रदेशिराजप्रतिबोधककेशिकुमारवत् / "बहुसुक्खसयसहस्साण, दायगा मोयगा दुहसयाणं / आयरिया फुडमेयं, केसि पएसी य ते हेऊ // 34 // 5 27. श्राव्याः / श्रावः सिद्धान्तस्य श्रवणं वा परेषां प्राणिनाम् / तत्र साधवः, 'तत्र साधौ' यः, ते श्राव्याः / शकुनिकानमस्कारदातृसाध्वादिवत् / "भरुअच्छे करुणाए, जइ स मुणी सउणीयाए नवकारं / न हु सावितो तो कह, सुदंसणा हुज्ज जयपयडा // 35 // " 28. शार्वाः / शर्वः शिवः, तस्येमे शार्वाः / इन्द्रियसुखाऽनिन्द्रियसुखरूपकामतत्त्व-शिवत्वप्रधाने 10 जगति लोकरूढ्या शिवपक्षीया एते साधवः मोक्षसुखाकाङ्क्षिण इति हृदयम् / जम्बूस्वामिवत् / "रूवेण जोव्वणेण य, कन्नाहिं सुहेहिं वरसिरीए य / ___ न य लुब्भंति सुविहिया, निदरिसणं जंबुनामु त्ति // 36 // 29. शव्वाः / शवन्ति शब्दं कुर्वन्ति / जीवन्तमपि छागादिकं गलामोटनादिना निर्जीव 'जे णिये' क्विपि, ते शवाः याज्ञिकादयः तान् , 'वाक् गति-गन्धनयोः ' गन्धनं परदोषोद्धट्टनं, वान्ति दूषयन्तीति ते 15 शव्वाः / दत्तमातुलश्रीकालिकाचार्यवत् / "दत्तेण पुच्छिउ जो, जन्नफलं कालओ तुरमिणीए / समयाइ आहिएणं, सम्मं बुइअं भयंतेणं // 37 // " यज्ञानां नरकं फलम् / 30. शव्वाः। 'शपी आक्रोशे' शपनं शप् आक्रोशस्तं वान्ति गच्छन्ति प्रामवन्ति परीषहकाले 20 सहन्ते इत्यर्थः, ते शव्वाः / अर्जुनमालाकारसाध्वादिवत् / "छटेणं छम्मासे, सहित्त अक्कोसतालणाईणि / अज्जुणमालागारो, खवित्तु परिनिव्वुडो कम्मे // 38 // "(5-76) ___31. पुनः सव्याः / सह विना प्रक्रमाद् गरुडपक्षिणा वर्तते यः स सविः / सव्वासौ अश्वदिग्विजयोद्यतवासुदेवः सव्यः, तत्तुल्याः शासनप्रतिपक्षदैत्यजेतृत्वात् सव्याः सिद्धसेनभट्टजैत्रश्रीवृद्धवाद्यादिवत् / 25 “मद्गोः शृङ्गं शक्रयष्टिप्रमाणं, शीतो वह्निर्मारुतश्चाप्रकम्पः। ___ यद्वा यस्मै रोचते तन्न किञ्चित् , वृद्धो वादी भाषते कः किमाह ? // 39 // "" इति तच्छक्तिः। 32. सव्याः / उश्च इश्च आश्च व्याः हर-काम-ब्रह्माणः, तदभेदोपचारात् तेषां विशिष्टगुणाः / लोकरूढ्या परमयोगित्व-जगत्प्रियत्व-वेदाध्ययनलक्षणास्ते व्याः, तैः सह वर्तन्ते ये ते सव्याः, 30 श्रीगौतमस्वाम्यादिवत् / mmmmmmmm 1 उपदेशमाला 102 / 2 उपदेशमाला 153 / 3 आवश्यक नियुक्ति गा. 871 / 4 मुद्गोः / 5 श्रीवृद्धवादिसूरिचरितम् श्लो. 32 [जुओः 'प्रभावक चरित' पृ० ५५-सिंघी जैन ग्रन्थमाला] /