________________ विभाग] नमस्कार स्वाध्याय / 27 अथ केतुः / (न मा उदरह-त-ऋणम् ) उदरहः-राहुः / पूर्ववद् व्याख्या / तस्य तः-पुच्छं केतुः / “तकारस्तस्करे युद्धे कोडे पुच्छे च” (सुधा० श्लो० 23) इत्येकाक्षरवचनम् / केतुस्तु राहुपुच्छत्वेन ज्योतिर्विदां सम्मतः / यतः-"तत्पुच्छे मधुहायां आपदुःखं विपक्षपरितापः” (नीलकण्ठ्यां ? ) अत्र तत्पुच्छ इति राहुपुच्छं, केतुरित्यर्थः इति ताजिके / हे उदरह [त ] ? त्वं ऋण ऋणवदाचर / मा निषेधे / ऋणं यथा दुःखदायि तथा केतुरपि उदितः सन् जनपीडाकरः, तत एवमुच्यते / त्वं मा ऋण। 5 नकारोऽपि निषेधार्थे / “द्विर्बद्धं सुबद्धं भवति" इति निषेधद्वयं विशेषेण निषेधाय इति // 109 // ___ अथ नव रसा वर्ण्यन्ते / तत्र पूर्व शृङ्गाररसः / ( नमोदरि ! हन्त अण) यथा कश्चित् कामी कुपितकामिनीप्रसत्तिकृते वक्ति हे नमोदरि ! हे कृशोदरि ! त्वं अण-वद / हन्तेति कोमलामत्रणे / नमं–नमत् , कृशं उदरं यस्याः सा नमोदरी-क्षामोदरी तस्याः सम्बोधनम् // 110 // इति नमस्कारप्रथमपदार्थाः॥ 10 पं० हर्षकुलगणिपादकृताः पं० समयकलशस्य लघुशिष्येणालेखि( षत ) / (2) आगमिक-श्रीदेवरत्नसूरिरचिताः नमस्कारमन्त्रान्तर्गत-'नमो लोए सव्वसाहूणं' पञ्चमपदगत 'सव्व' शब्दस्यानेकार्थाः / ॐ श्रीगुरुभ्यो नमः // श्रीवीरजिनं नत्वा, पञ्चमपरमेष्ठिपदगतं किञ्चित् / कुर्वेऽर्थलेशदीपनमात्मनि साधुत्वपरिवृद्धयै // 1 // नमो लोए सव्वसाहूणं / नमो लोके सर्वसाधुभ्यः / तत्र 'नमः' इति प्रहत्वार्थेऽव्ययम् / लोकेऽर्धतृतीयद्वीपसमुद्रादिलक्षणे, ऊर्ध्व-तिर्यगधोलोकलक्षणे वा वर्तमानेभ्यः / 1. सर्वे सकलाश्च ते साधवश्च सर्वसाधवः // "केवलिणो परमोही, विउलमई सुयहरा जिणमयम्मि / आयरिय-उवज्झाया, ते सव्वे साहुणो सरणं // 2 // चउदस-दस-नवपुज्वी, दुवालसिक्कारसंगिणो जे य / जिणकप्पाऽऽहालंदिय, परिहारविसुद्धिसाहू य // 3 // खीरासव-महुआसव, संभिन्नस्सोय-कुट्ठबुद्धी य / चारण-वेउव्वि-पयाणुसारिणो साहुणो सरणं // 4 // " इति गाथात्रयोक्ताः, उपलक्षणादन्येऽप्यशेषविशेषवन्तः / अथवा 2. सर्वे च ते सामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो जिनकल्पिक-प्रतिमाकल्पिकस्खविरकल्पिकाः स्थितास्थितकल्पिक-कल्पातीतभेदाः / प्रत्येकबुद्ध-स्वयंबुद्ध-[बुद्ध ]बोधितभेदाः / भारतादिविभेदाः सुखम-दुःखमादिविशेषिता वा साधवः सर्वसाधवः, तेभ्यः सर्वसाधुभ्यो नमोऽस्त्विति कियासंटकः इति // 15 25 30 १चउसरणपयन्ना 32-34