________________ नमस्कारान्तर्गत-पदविशेषानेकार्थाः। [प्राकृत हन्ति-गच्छति आचार्यतया प्राप्नोति अदलहन्ता-सुराचार्यः, जीव इत्यर्थः / किम्भूतः / 'आनः' आ समन्तात् नः-ज्ञानं यस्मात् स आनः-ज्ञानदाता / किम्भूतः सन् ? 'नमः' नः बुद्धिः पञ्चमं भवनं तत्र 'मदुङ् स्तुति-मोद-मद-स्वप्न-गतिषु' मन्दते-गच्छति नमः डप्रत्यये सिद्धम् / लमे हि पञ्चमभवनस्थो गुरुर्ज्ञानदाता स्यादिति // 105 // 6 अथ शुक्रः / ( नम उन्द-ल-भं तानम् ) 'तानः' तकारस्य षोडशव्यञ्जनत्वात् तशब्देन षोडश उच्यन्ते / 'अषी असी गत्यादानयोश्च' (सिद्ध० धा० ) इत्यत्र चानुकृष्टदीप्त्यर्थाद् 'अस्' धातोः क्विपि अस् इति रूपम् / असः दीप्तयः किरणा इति यावत् / ततः ताः-षोडश, असः-किरणाः तेषां नःबन्धो योजना यस्य स तानः-शुक्रः / सन्धौ, दीर्घे 'अन्त्यव्यञ्जनस्य' (सिद्ध० 8. 1, 11.) इति सलोपे प्राकृते रूपसिद्धिः / व्यञ्जनैश्च सङ्ख्याप्रतिपादनं ग्रन्थप्रसिद्धम् / यदुक्तं आरम्भसिद्धौ10 “विद्युन्मुख १-शूला २-ऽशनि ३-केतूल्का ४-५-वज्र ६-कम्प ७-निर्घाताः 8 / ___ङ ५-ज ८-ढ 14 - द १८-ध १९-फ 22 -ब 23- भ 24 सङ्खये रविपुरत उपग्रहा धिष्ण्ये॥" इत्यादि। “घोडशाचिर्दैत्यगुरुः" इति (अभिधान० का० 2, श्लो० 34) वचनात् तानः षोडशकिरणः, शुक्र इति यावत् / तं शुक्र नम; धातूनामनेकार्थत्वाद् भजस्वेत्यर्थः / किम्भूतम् ? ऊ अरहं / 'उन्दैप् क्लेदने (सिद्ध० धा०) उनत्ति-रोगैः क्लिन्नो भवति उन्दः तस्य / 'लश्वामृते' इति (सुधा० श्लो० 39) 15 वचनाद् ल:-अमृतं तं भवतेऽन्तर्भूतणिगर्थत्वात् 'भूङ् प्राप्तौ' [ सौत्रधातुरयम् , 'भूङ् प्राप्तौ णिङ् / ' सिद्ध० 3-4-19] धातोः प्रापयति डे रूपं उन्दलभः तम् ; रलयोरैक्यम् / रोगार्तस्य हि शुक्रोऽमृतदाता सञ्जीवनीविद्या शुक्रस्यैवेति तद्विदः / अथवा “भश्चालिशुक्रयोः" इति ( सुधा० श्लो० 33) वचनाद् भः-शुक्रः / अरः-शीघ्रगामी चासौ भश्च अरभः तं नम-सेवस्व / उ इति सम्बोधनम् / किम्भूतं भम् ? 'तानं' शुभकार्याणि तानयति-विस्तारय[ ती]ति तानः तम् , शुक्रो हि शीघ्रगामी अनस्तमितः 20 शुभः, शुभकार्याय भवति / / 106 // अथ शनिः / ( नमोऽरं हन्ता आनम् ) "आरः क्षितिसुतेऽर्कजे” इति विश्वप्रकाश ( वर्गे 22) वचनाद् आरः-शनिः / 'स्वराणां स्वराः' (सिद्ध० 8. 4. 238.) इति प्राकृते अर इति जातम् / अथवा अरः कथम्भूतः ? 'आनः' अकारस्य न:-बन्धो यत्रेत्यनया व्युत्पत्त्या आर इति जातम् / आरं-शनि नमोऽस्तु इत्युपहासनमस्कारः / यतो हन्ता-जनपीडकः तस्माद् हे आर ! त्वां नमोऽस्तु इत्यर्थः // 107 // 28 अथ राहुः / (न-म उदरहः तानः ) 'उअरह' उदरेण हीयते उदरहः-राहुः / राहुस्तु उदरहीनः, शिरोमात्ररूपत्वात् , तस्य / किम्भूतः ? 'नमः' 'नशौच अदर्शने' (सिद्ध० धा० ) नश्यतीति डे नः / एवंविधो मः-चन्द्रो यस्मात् सः, उपलक्षणत्वात् सूर्योऽपि / राहुस्तु चन्द्र-सूयौं सते इति राहोश्चन्द्रनाशः / पुनः किंविशिष्टः ? 'तानः' तः युद्धं तस्य न:-बन्धो रचना यस्मात् स तथा / राहुसाधनापूर्व [ सूर्यशशिभ्यां ] युद्धं क्रियते इतीदं विशेषणं युक्तिमत् // 108 // 1 आरम्भसिद्धौ प्रथमविमर्श श्लोक 63 टीकायाम् / आरम्भसिद्धौ अयं श्लोकः 'नारचंद्र' ग्रन्थाद् उद्धृतः /