________________ नमस्कार स्वाध्याय। 25 विभाग] - (नमोऽरः हन्तानः ) उ अर / कोऽर्थः ? / ऋत्वरः ‘रह त्यागे' ( सिद्ध० धा० ) रह्यते त्यज्यते इति भावे डप्रत्यये र:-निन्द्यः, न रः अरः-उत्तम इत्यर्थः / ऋतुषु अरः-उत्तमः ऋत्वरः, सर्वऋतुप्रधान इत्यर्थः / स क इति विशेषणद्वारेणाह-'हन्तानः' हं-जलं, तानयति-विस्तारयति हन्तानः / वर्षाऋतुरित्यर्थः / किम्भूतः ? 'नमः' नमति–प्रह्वीकरोति खोपमान् सर्वजनान् करोति अन्तर्भूतणिगर्थत्वाद् नम् / सर्वव्यापारप्रवर्तक इत्यर्थः // 99 // (नम अरहा-ऽन्त ! न ) 'अरहन्त०' आपः-जलं / ‘रह त्यागे' ( सिद्ध० धा० ) रहन्तित्यजन्ति मुश्चन्तीति अरहः-मेधाः, तस्य (तेषां ) अन्तः-विनाशो यस्मात् सः अरहान्तो-धनात्ययः, शरद् इत्यर्थः / हे अरहान्त ! हे शरत् ! त्वं / न निषेधे / 'नम' इति क्रियापदम् / मा नम-मा कृशीभव / शरदोऽतिरमणीयत्वादेवमुक्तिः // 100 // इति षड् ऋतवः सम्पूर्णाः // अथ नव ग्रहा वर्ण्यन्ते / तत्र सूर्य-चन्द्रौ पूर्व, तत्रापि चन्द्रः प्रथमः सिद्धान्तवेदिनां मते / 10 ( नमोऽरभं त्राणम् ) "रः तीक्ष्णे” इति ( विश्व० श्लो० 101 ) वचनाद् रः-तीक्ष्णः, न रः अरः, शीत इत्यर्थः / अरा-शीता, भा–कान्तिः यस्य स अरभः-शीतगुः तं नमोऽस्तु / चन्द्रं किम्भूतम् ? जाणं--शरणं, सर्वनक्षत्राणां ग्रहाणां च नायकमित्यर्थः // 101 // __ अथ सूर्यः / ( नमो च रभं ता-ss-नम् ) रा तीक्ष्णा, भा–कान्तिः यस्य स रभः सूर्य इत्यर्थः / रमाय-सूर्याय नमः / 'व्यत्ययोऽप्यासाम्' [ आसां ] विभक्तीनां व्यत्ययोऽपि स्यादिति वचनात् चतुर्थ्यर्थे 15 द्वितीया / चः पूर्वोक्तार्थसमुच्चये / किम्भूताय रभाय ? 'तानाय' / “तकारस्तस्करे युद्धे" ( सुधा० लो० 23) इत्येकाक्षरवचनात् ताः-चौराः तेषां आ-समन्तादू नः-बन्धनं यस्मात् स तानः तस्मै / सूर्योदये हि चौराणां बन्धनं भवति // 102 // _____ अथ भौमः / (न मौ अर ! हन्ताऽऽन ! ) हे अर ! / अरः किम्भूतः ? 'आनः' अकारस्य न:-बन्धो यत्र, एतावता आरः-कुजः / किम्भूतः ? 'हन्तः' हः-जलं तस्य अन्तो यस्मात् स तथा, 20 एवंविधो न, जलदाता इत्यर्थः / किम्भूतः सन् ? 'मौः' "मश्चन्द्रे [च ] विधौ शिवे” इति ( सुधा० श्लो० 34 ) वचनात् मः-चन्द्रः, तं अवति-प्राप्नोति विपि मौः / चन्द्रयुक्तो हि भौमो वर्षाकाले वृष्टिदः // 103 // ___ अथ बुधः / (न मौजो रै० भं तानः ) मः-ब्रह्मा / सः अवति-देवतात्वेन स्वामी भवति क्विपि मौः / स्वाम्यर्थे 'अव' धातुः / ततो मौः-रोहिणीनक्षत्रं, तस्मात् जायते इति मौजः-बुधः / “श्यामाङ्गो 25 रोहिणीसुतः” इति ( अभिधान० का० 2, श्लो० 31) वचनाद् 'रिहं' राः-धनं, तदेव भं-भवनं, धनभवनमित्यर्थः / तत्र गत इति शेषः / 'तानः' तां लक्ष्मी आनयतीति तानः एवंविधो न ? किन्तु एवंविध एवेति काकूक्त्या व्याख्येयम् / धनभवनस्थो हि बुधः-लक्ष्मीप्रद इति ज्योतिर्विदः / रैशब्दस्य 'एत ऐत्' ( सिद्ध० 8. 1. 148.) 'स्वराणां स्वराः' (सिद्ध० 8. 4. 238.) इतीकारः // 104 // ___अथ गुरुः / ( नमः अद-ल-हन्ता आ-नः) " लश्वामृते” इति (सुधा० श्लो० 39) 30 वचनाद् लः-अमृतम् , अदनम् अदः-भोजनम् , अदे-भोजने, ल:-अमृतं येषां ते अदलाः-देवाः; तान्