________________ नमस्कारान्तर्गत-पदविशेषानेकार्थाः। [प्राकृत वह्निवर्णसूर्यकान्तादीनि रत्नानि / उपलक्षणादन्यान्यपि रत्नानि ग्राह्याणि / तेषां गणः-समूहोऽस्ति / 'क-ग-च-ज- [त-द-प-य-वां प्रायो लुक् ]' (सिद्ध० 8. 1. 177.) इति गलुक् / ‘पदयोः सन्धिर्वा' (सिद्ध० 8. 1. 5.) इति सन्धिः / यथा चक्काउ-चक्रवाकः। ‘णिश समाधौ' (सिद्ध० धा० ) नेशति-समाधिं करोति चित्तस्वास्थ्यं निर्मापयतीति डे नः // 91 // . 5 अथामिः / (नम ओ अज-रथं त्रि-अणम् ) अजः-छागः, रथः-वाहनं यस्य सः अजरथः-वह्निः तं त्र्यणं त्रयोऽणाः शब्दा यस्य सः, त्रिविधोऽमिरिति कविसमयः / 'ओ' इति सम्बोधने / तं नमप्रणमेति स्वप्नाः 14 // 92 // . (नमो अरहंताणं ) नं-ज्ञानं / अरहन्ताणं-अत्यजतां पुरुषाणां उख भवति / 'उख्नखे' ति गत्यर्थो दण्डकधातुः / 'ओखणं ओग्' विचि सिद्धम् / अन्त्यव्यञ्जनलोपे ओ-गतिर्भवतीत्यर्थः / गतिः 10 सैव या सद्गतिः / यथा “कुले हि जातो न करोति पापं" इत्यत्र कुलं तदेव यत् सत्कुलमिति // 93 // (नं ओ तर हन् ! तां नः) हंसं अणति-श्रयति वाहनतया णिजि क्विपि हन् / 'ओ' इति सम्बोधने / हे हन् ! हे सरस्वति / नः-अस्माकं, नं-ज्ञानं, तां-शोभां च, तर-देहि / 'तृ' धातुः दाने वर्तते / ( अन्यथा विपूर्वोऽपि दाने न प्रवर्तेत ) उपसर्गाणां धात्वर्थद्योतकत्वात् , तृधातौ दानार्थो ऽस्तीति // 94 // 15 (नम् ओ अर अहर् अन्त ! णं ) अन्तशब्देन [ पदैक ] देशे [ पद ] समुदायोपचाराद् हेमन्त इति / अहर-दिनं, नमतीति नमं-कृशं, हे हेमन्तऋतो! त्वं नमं-कृशं दिनं, अर-प्रामुहि / 'णं' अलङ्कारे / हेमन्ते दिनलघुता इति प्रसिद्धम् // 95 // (नमः अरे ह-तानाम् ) “रः तीक्ष्णे" इति ( विश्वशम्भुनाममालायां श्लो० 101) वचनात् रं-तीक्ष्णं उष्णमिति यावत् / न रं अरं-अतीक्ष्णः, शिशिरऋतुः इत्यर्थः, तस्मिन् अरे-शिशिरऋता20 वित्यर्थः / अपभ्रंशे इकारः / 'व्यत्ययोऽप्यासाम्' इति व्यत्ययः स्याच्च / हं-जलं तस्मात् तन्यन्तेविस्तारं यान्ति, हतानि जलरुहाणि, पद्मानीत्यर्थः / तेषां नमो नमनं-कृशता भवति / शिशिरे हि कमलानि हिमेन शुष्यन्तीति प्रसिद्धम् // 96 // (नम् उ सुरभ् हान्तास् णं) हकारोऽन्ते यस्य स हान्तः / सकार इत्यर्थः / तेन असति-शोभते हान्तास् / एवंविधो रभशब्दः / पुनः किम्भूतः ? 'उ''अ' उकारेणासति-शोभते उ अष् ‘अन्त्य25 व्यञ्जनस्य' (सि० 8. 1. 11.) इति षलोपः / उरह् (हः ) इति शब्दः स सकारयुक्तः क्रियते तदा सुरह इति जातम् / कोऽर्थः ? सुरभिः–वसन्तऋतुः, तमाचष्टे स्तौति इच्छति वा यः पुरुषः स सुरभ् णिजि तलोपे सिद्धम् / किप् लोपश्च / उ अरह् इत्यत्र अन्त्यव्यञ्जनलोपः / सुरभशब्देन वसन्तस्तावकः पुरुष इत्यर्थः / “णः प्रकटे निष्फले च" ( सुधा० श्लो० 22) वचनात् णं-प्रकटं यथा स्यात् तथा नम् स्यात् , नमतीति नम्-प्रहीभावः, उद्युक्तः सर्वकर्मणीत्यर्थः // 97 // 30 (न मोदः रः हा-ऽन्तानः ) “रः तीक्ष्णे” (विश्व० श्लो० 101) इति वचनात् / रः-उष्णः ग्रीष्मऋतुरित्यर्थः / किम्भूतः ? हं-जलं अन्तं आनयतीति हान्तानः, ग्रीष्मे जलशोषः स्यादित्यर्थः / मोदयतीति मोदः / एवंविधो न / ग्रीष्मः [प्रायः ] परितापकरत्वान्न मोदकृत् // 98 //