________________ 23 विभाग] नमस्कार स्वाध्याय। (नमोदन रंह तानम् ) तानोद्भवत्वात् तानं वस्त्रं, कारणे कार्योपचारात् / तानं किम्भूतम् ? नमोदन्' नमं-नमनं सर्वदिक्षु प्रसरणं तेन अवति-कान्तिमद् भवति, किपि नमु / दण्डं श्रयति, णिजि किपि पदस्य उलोपे दन् / न मु च तद् दन् च नमोदन् / एतावता ध्वज इत्यर्थः / 'स्वराणां स्वराः' (सिद्ध० 8. 4. 238.) इत्योकारः / तं ध्वजं त्वं रंह-जानीहि / 'रहुण् गतौ' (सिद्ध० धा०) 'गत्यर्था ज्ञानार्थाः' इति वचनाद् ज्ञानार्थत्वम् / चान्द्रमते णिचोऽनित्यत्वाणिजभावे रहेति सिद्धम् / / अनुखारस्तदसत्त्वं चित्रत्वाददुष्टम् // 86 // _____ अथ कुम्भः (न मा ओ कलः हाऽन्तं अण) ओ कल:-कलशं श्रयति णिजि किपि सम्बोधने / ओ कल: 'ओ' इति सम्बोधनपदम् / हे कलशाश्रयिन् ! पुरुष ! त्वम् / 'हिंट गति-वृद्धयोः' (सिद्ध० धा० ) हयनं हः-वृद्धिः तस्या अन्तं-विनाशं, न-मा, अण–वद / कलशाश्रयिणः पुरुषस्य वृद्धिरतो न स्यात् / कामकुम्भो हि कामितकरः, तेनैवमुच्यते / नकार-मकारौ निषेधवाचकौ / एक-10 निषेधेऽर्थसिद्धौ द्वितीयनिषेधः “द्विर्बद्धं सुबद्धं भवति" इति न्यायादवगन्तव्यः। लोकप्रधानत्वापेक्षया च निषेधद्वयं 'मा' 'न' 'करि करि' इत्यादि // 87 // अथ पद्मसरः (न मोद् रः हान्ताः नऽम्') रो वर्तते। किम्भूतः ? 'हान्ताः' हकारोऽन्ते यस्य / एतावता संकारः तेन असति-शोभते इति हान्तास् / एतावता सर इति जातम् / अब्जानिकमलानि श्रयतीति णिचि किपि तल्लोपे अन्त्यस्वरादिलोपे। ‘पदस्य' (सिद्ध० 2. 1. 89.) इति 15 जलोपे च अब् इति जातम् / 'अन्त्यव्यञ्जनस्य' (सिद्ध० 8. 1. 11.) इति प्राकृते वकारस्यापि लोपे अम् इति स्थितम् / एतावता पद्माश्रितं सर इत्यर्थः / किम्भूतम् ? मोदयति मोद् एवंविधं न न / प्रकृतार्थे द्वौ निषेधौ / हर्षकारकमेवेत्यर्थः // 88 // अथ सागरः / ( नम-ऊ-जलध्यन्तः-आनन् ) नमं नमनं-सर्वत्र प्रसरणं तेन ऊः-शोभमान एवंविधो जलध्यन्तः-समुद्रः / अन्तशब्दः स्वरूपे। किम्भूतः ? 'टुनदु समृद्धौ' (सिद्ध० धा० )20 आपूर्वः नद् / आनन्दयति-समृद्धि प्रापयति सेवकान् , रत्नाकरत्वात् / विचि ‘आनन्' इति सिद्धम् // 89 // ___ अथ विमानः ( नम ओ अ-र-ह-अन्त ! ऋणम् ) अन्तशब्देन 'पदैकदेशे पदसमुदायोपचारात्' निशान्तं-गृहम् / “रः कामे तीक्ष्णे वैश्वानरे नरे” इत्येकाक्षर (सुधा० श्लो० 36) वचनात् र:-नरः न रः अरः / अरो-देवः / अरान्–देवान् , हन्ति–गच्छति प्राप्नोति देवाश्रितत्वात् अरहम् , 25 एवंविधं अन्तं-निशान्तं अरहन्तं, अमरविमानमित्यर्थः / तस्य सम्बुद्धौ हे अरहन्त ! त्वं ऋणं-दुःखं, नामय–पराकुरु / 'नम' इत्यत्रान्तर्भूतो णिगर्थः / 'ओ' इति 'हे' इत्यर्थे // 90 // (नः म-ऊत-र-अहर्-अन्त-गण ) 'मश्चन्द्रे [च ] विधौ शिवे' इति ( सुधा० श्लो० 34) वचनात् मः-चन्द्रः तेन उतं-कान्तं मोतं, चन्द्रकान्तमित्यर्थः / र:-अग्निः तत्तुल्यं, तथा अहर्-दिनम् / अहः करोति णिजि क्विपि अहः-सूर्यः तद्वदन्तः स्वरूपं यस्य, सूर्यकान्त इत्यर्थः / एतावता चन्द्रकान्ते 30 1 टीकामां 'अम्' नी सिद्धि छ /