________________ 22 नमस्कारान्तर्गत-पदविशेषानेकार्थाः / [प्राकृत मित्यत्र 'स्वराणां स्वराः' ( सिद्ध० 8. 4. 238.) इत्यात्वम् / 'हन्ताणं' इत्यत्र 'पदयोः सन्धिर्वा' ( सिद्ध० 8. 1. 5.) इति सन्धौ ‘अघो म-न-याम्' ( सिद्ध० 8. 2. 78.) यलोपे सिद्धिः // 79 // (नम! उअ रथ-तानं) रह-रथं तानयति-विस्तारयति स्थानात् स्थानान्तरं नयति, 'नवाऽखित् कृदन्ते रात्रेः' (सिद्ध० 3. 2. 117.) इति मोऽन्ते रथंतानो-वृषभः तं 'उअ पश्य' (सिद्ध० 58. 2. 211.) नमेति हे नम ! नमतीति नमः तत्सम्बुद्धिः // 80 // (न-मोक्-करिहन्ता आनाम् ) 'णहींच वन्धने' (सिद्ध० धा०) नह्यते इति भावे डप्रत्यये नं-बन्धनं, तस्योपलक्षणादन्याऽपि पीडा ग्राह्या / तस्मान्मोचयति नमोग् णिगन्ताद् विच करिहन्तासिंहः / नमोक् चासौ करिहन्ता च स तथा / केषाम् ? 'आनाम् ?' 'अषी असी गत्यादानयोश्च' (सिद्ध० धा० ) इति चानुत्कृष्टशोभार्थादषेर्डे प्रत्यये अः-शोभमानः, पुण्यवान्नर इत्यर्थः / तेषां एवं10 विधः सिंहो दृष्टः / पीडाहरः स्यादित्यर्थः // 81 // (नमोदर-हं ता-ऽऽनम् ) ता-लक्ष्मीः तस्याः आनं वर्णच्युतकादासनं वर्तते / किम्भूतम् ? / 'नमोदरहं' नम-नमत् उदरं हं-जलं यत्र तत् तथा / 'एकार्थ चानेकं च' (सिद्ध० 3. 1. 22.) इति समासः / आसने स्थिता लक्ष्मीः खं जलेन सिञ्चति इति लक्ष्म्या अभिषेकः / स्वप्ने दृष्ट इति तथा वणितम् / वर्णच्युतिश्च नैषधस्यादिकाव्ये (स० 1, श्लो० १.)-"तथाऽऽद्रियन्ते न बुधाः सुधामपि" 15 इत्यत्र सुधाशब्देन वसुधां व्याकुर्वता टीकाकारण महाकविना दर्शिता // 82 // गज-वृषम-सिंह-पद्मासना-सक्-चन्द्र-तपन-पताकाः / कुम्भा-ऽम्भोजसरो-ऽम्बुधि-विमान-रत्रोच्चयाऽग्नयः स्वप्नाः / / -गीतिः [इति ] चतुर्दशस्वप्ननामानि, तत्र चत्वारि व्याख्यातानि / अथ स्रक् व्याख्यायते (नम-ऊ-अलि-हन्त-आः नम् ) हं-जलं तस्मात् तन्यते-विस्तरति उत्पद्यते इति यावत् , हन्तंकमलं 20 कर्मकर्तरि डः कमलस्योपलक्षणादन्यान्यपि पुष्पाणि गृह्यन्ते। 'आसिक् उपवेशने' (सिद्ध० धा० ) आसनं आस् कमलादिपुष्पाणाम् आः-स्थानम् , एवंविधो यो नः-बन्धो रचनाविशेषः सकपः तत् हन्तानं क्लीबत्वं प्राकृते लिङ्गस्यातन्त्रत्वात् / किम्भूतम् ? 'नमो अरि' रलयोरैक्यम् / नमः-प्रहीभावः परितो भ्रमणं तेन ऊः-शोभमाना अलयो यत्र तत् / अवतेः शोभावाचिनः विपि ऊः // 83 // (न मोऽरिहन्ता न ) मः-चन्द्रो वर्तते / किम्भूतः / ‘णसि कौटिल्ये' ( सिद्ध० धा० ) नसते 25 इति नः क्विप् / 'अभ्वादेः [ अत्वसः सौ ' (सिद्ध० 1. 4. 90.) इति न दीर्घः / श्रादित्वात् न नः-न कुटिलः, पूर्ण इत्यर्थः / एवंविधश्चन्द्रोऽरिहन्ताऽस्तु / न इत्यत्रानुस्वाराभावश्चित्रत्वात् // 84 // अथ सूर्यः ( नमो अर्-अहस्तानम् ) अहर-दिनं, तनोति-करोति अहस्तानः-दिनकरः अरा विद्यन्ते यत्र तत् अरि-चक्रं तद्वदाचरति वृत्तत्वादाचारे क्यनि किपि तयोर्लोपे अर, अर चासौ अहस्तानश्च वृत्तो दीप्यमानश्च सूर्यस्तं [प्रति ] नमः // 85 //