________________ विभाग] नमस्कार स्वाध्याय / (न-मा-ऊ अ-र-हा-ऽन्तेभ्यः / अकारं रियन्तीति डे अराः / 'रित् गतौ' अकारप्रापकाः / हकारोऽन्ते येषां ते हान्ताः / अकारादयो हकारान्ता वर्णाः इत्यर्थः। 'नमो' नं-ज्ञानं, मा-शब्दः 'माङ् मान-शब्दयोः' (सिद्ध० धा० ) इति तयोः औः-अवगमनं भवति / अव-धातुरवगमनार्थेऽपि वर्तते / अवनं ऊः भावे क्किपू / 'अरहंताणं' इत्यत्र चतुर्थी ज्ञेया / वर्णेभ्यो ज्ञानं शब्दावगमश्च स्यादित्यर्थः // 71 // (नमोदरा-भक्-त्राणम् ) त्राणशब्देन बृहत्पूपिकोच्यते जैनमुनिभाषया / ये लोके मण्डका इति प्रसिद्धाः ते साधूनां त्राणका इति / त्राणानां समूहो त्राणम् / समूहार्थे अण् / त्राणं किम्भूतम् ? नमं-नमत् उदरं यस्याः सा नमोदरा-बुभुक्षा तां भनक्तीति किम् // 72 // (न मौकरहः ता-ऽऽनः ) “मूको दैत्याऽवाग्दीनेषु इत्यनेकार्थसङ्ग्रहः / ( हैमे का० 2. श्लो० 3.) मूकानां समूहो मौकम् / 'षष्ठयाः समूहे' (सिद्ध० 6. 2. 9.) इत्यण् / 'रह त्यागे' 10 (सिद्ध० धा० ) मौकं रहति मौकरहो न स्यात् / कः ? तां-लक्ष्मी आनयतीति तानः / धनोपार्जक: दीनसमूहवर्जको न स्यात् / दीनसमूहं प्रीणयतीति स दीनैः सेव्यत इत्यर्थः // 73 // (नमो-गा ण-रहन्तः ) “णः प्रगटे निष्फले च प्रस्तुते ज्ञान-बन्धनयोः” इति (सुधा० ) एकाक्षरनाममाला (श्लो० 22.) वचनात् णः-बन्धः कर्मबन्ध इत्यर्थः / तं रहन्तः त्यजन्तः पुरुषाः 'नमोगाः' स्युः / नमः-नमस्कारं, गच्छन्ति-प्रामुवन्तीति नमोगाः-नमस्कारार्हाः स्युः // 74 // 15 ... (नमोचः ण-रहन्तः ) णं-ज्ञानं, रहन्तः-प्राप्नुवन्तः पुरुषाः 'नमोचः' स्युः / नमन्तीति डे नाः-प्रणामकारिणः तान् मोचयन्ति संसाराद् नमोचः, णिगन्तात् क्विपू / 'रहु गतौ' (सिद्ध० धा० ) रहन्त इत्यत्रानुस्वाराभावश्चित्रत्वात् // 75 // * (न मा ऊः अरहन्तः णं) 'णसि कौटिल्ये' (सिद्ध० धा० ) नसनं नः-कौटिल्यम् / अरहन्तः–अप्राप्नुवन्तः पुरुषाः णं-प्रकटं यथा स्यात् तथा, अवन्ति–दीप्यन्ते इति क्विपि ऊः / प्राकृत-20 त्वाज्जस्लुक् 'स्यम्-जसू शसां लुक्' (सिद्ध० 8. 4. 344.) अपभ्रंशे 'व्यत्ययश्च' (सिद्ध० 8. 4. 447.) इति भाषाव्यत्ययात् प्राकृतेऽपि // 76 // (न मोऽरि-हन्ता आः न ) मृदं करोति णिजि अचि मः-कुम्भकारोऽस्ति / किम्भूतः ? अरिचक्रं तेन अंहते-दीप्यते अरिहन्ता से क् / न न भवतीति भवत्येवेत्यर्थः / आः पादपूरणे // 77 // __(नः मोक-रहन्तानाम् ) मोकं–कायिकी रहन्ताणं-त्यजतां परिष्ठापयतां साधूनां नो भवति 25 अविधिना त्यजतां नः-कर्मबन्धः, विधिना त्यजतां तु नः-ज्ञानं स्यादिति विवक्षयार्थद्वयम् // 78 // ... अथ चतुर्दशस्वप्नवर्णनम्- ( नम-करी ऋण-हन्ता णं ) नमः-प्रह्वीभावः सौम्यत्वमिति यावत् , तेन अवति-दीप्यते / अव-धातुरेकोनविंशत्यर्थेषु / तत्र दीप्त्यर्थोऽप्यस्ति / नमश्चासौ करी-हस्ती / सौम्यो गज इत्यर्थः / सोऽदुःखहेतुत्वात् ऋणं-दुःखं, कारणे कार्योपचारात् हन्ति-विनाशयति / अण