________________ 20 नमस्कारान्तर्गत-पदविशेषानेकार्थाः। [प्राकृत (न मोच-र-हन्ता ऋणम् ) ऋधातोस्तप्रत्यये 'ऋ-ही-वा-धा (त्रोन्दनुदविन्तेर्वा ) (सिद्ध० 4. 2. 76 इति ऋणप्रयोगः / न ऋण-क्षीणम् पुरुषं, मोचः-शिग्रुः तस्य 'र'शब्देन रसो हन्ताघातको भवति / क्षयरोगी पुरुषः शिंगुरसेन नीरोगः स्यादिति तात्पर्यम् / पदैकदेशे पदसमुदायोपचारात् 'र'शब्देन रसः / नेयं स्वमतिकल्पना श्रीजिनप्रभसरिरपि 'पउमाभवासुपूज्जा' इत्यस्यां गाथायां 5 चतुरनुयोगी व्याख्यानयद्भिरेवं व्याख्यातम्–“पउ इति पौषः / मा इति माघः / भ इति भाद्रपदः / तत्र अव इति अवमरात्रे सतीत्यर्थः / असु इति असुभिक्षं-दुर्भिक्षं स्यात् / पु इति पुहवी / लोगो पुहवी सोवा, तस्य ज्या ज्यानिः-हानिः स्यादित्यर्थः" / इति द्रव्यानुयोगः // 64 // (न मोऽलि हन् त्राणम् ) 'नमो अरिहंताणं' अलि:-वृश्चिकराशिः, तत्र 'हनं हिंसा-गत्योः' (सिद्ध० धा० ) हन्ति गच्छतीति विचि अलिहन्-वृश्चिकराशिगतो मः-चन्द्रः त्राणं-विपद्रक्षको न 10भवति / वृश्चिकराशौ चन्द्रस्य नीचत्वाद् दौर्बल्यम् / इति गणितानुयोगः // 65 // ( नमः अलि-हा-ऽन्तेभ्यः) “अलिः सुरा-पुष्पलिहोः" इति ( हैमे अनेकार्थे का० 2, श्लो० 480.) वचनात् अलि-सुरा तां जहाति, अलिहं-सुरावर्जकम् / सुराया उपलक्षणत्वाद् मांसाद्यपि ग्राह्यम् / मद्यादिवर्जकं अन्तः-स्वरूपं येषां तानि अलिहान्तानि-श्राद्धकुलानि तेभ्यो नमः-उद्यमो भवतु / श्राद्धकुलानि उदितानि सन्त्वित्यर्थः // 66 // 15 (नमः अरे हं अताणम् ) कश्चिच्छेवो वक्ति, हं-अहं रे-रामविषये नमो-नमस्कारम् , अताणं-अतनवम् , कृतवानित्यर्थः / 'र' शब्देन राम उच्यते एकाक्षरनाममालायाम् / अतनवमिति बस्तन्युत्तमैकवचनम् / अकारः पादपुरणे // 67 // (नमः अरे हं अताणम् ) कश्चिज्जैनो वक्ति, अहं रामे नमः नातनवम् / अकारो निषेधे "अमा-नो-नाः प्रतिषेधवाचकाः" इति माला // 68 // 20 (नमोऽर-भन्ता णम् ) नमो अरहताणं नं-बन्धनं / 'मींग्श् हिंसायां' ( सिद्ध० धा० ) मीनातिहिनस्ति / उप्रत्यये नमः-बन्धच्छोटकः, बन्दिमोक्षकरः स वर्तते / किम्भूतः ? 'अरहन्ता' रः नरः, नरः अरः-अमर्त्यः-देव इत्यर्थः / अरान्–देवान् भनक्तीति अरभन्–दैत्यः / तेभ्यः 'ताय॒ङ सन्तान-पालनयोः' (सिद्ध० धा०) तायते इति ताः विपि / 'य्वोः प्वव्यञ्जने लुक्' (सिद्ध० 4. 4. 121.) इति यलोपे अरहन्ता / बन्दिमोक्षकरः-मन्त्रमण्यादिः पदार्थो दैत्यभयवारको भवति / 'ण' पूरणे // 69 // 25 (न-मोऽरहन् त्राणम् ) 'न' शब्देन ज्ञानं तच्च पञ्चसङ्ख्यम् / एतावता नं पञ्चसंख्याया मं-ज्ञानं यस्य स नमः–पञ्चमज्ञानवान् केवली 'माङ् मान-शब्दयोः' (सिद्ध० धा० ) / मीयते इति मं-ज्ञानम् / बाहुलकाद् भावे डप्रत्यये सिद्धम् / केवली किम्भूतः ? 'अरहन्' अरा-देवाः तान् हन्तिगच्छति-प्राप्नोति अरहन् / देवस्य सेव्य इत्यर्थः त्राणं षट्कायरक्षकश्च // 70 // 1. सम्पूर्णा गाथा चैवम् "पउमाभ-वासुपूजा, रत्ता ससि-पुप्फदंत ससिगोरा / सुव्वय-नेमी काला, पासो मल्ली पियंगाभा // "