________________ विभाग] नमस्कार स्वाध्याय / / ( नमोऽगा-ऽरि-हा-ऽन्ता-ऽणं ) अगाः-पर्वताः तेषां अरिः-इन्द्रः तस्य हो-निवासः स्वर्गः तस्य अन्तः-स्वरूपं, “अन्तः स्वरूपे निकटे” इति (हैमे का० 2, श्लो० 171.) वचनात् , तं अणतिवदति यः तं प्रज्ञापनादिसिद्धान्तवेदिनं नमः-प्रणतो-ऽस्मीत्यर्थः / अगारिरित्यत्र ‘अवर्णो यश्रुतिः' (सिद्ध० 8. 1. 180.) न, यकारबाहुलकाद् इति // 54 // ..(नमोऽहं त्वमत णम् ) णं-ज्ञं पण्डितं पुरुषं त्वम् अत–जानीहि / 'अत सातत्यगमने' (सिद्ध० / धा०)। 'गत्यर्था ज्ञानार्थाः' / किंभूतम् ! नमोऽहं प्रणामयोग्यम् // 55 // (न-म-उ अर्हदृणम् ) 'अरिहंताणं' अर्हन्-तीर्थकरः तस्य ऋण-कर्म, तीर्थकरनामकर्मेत्यर्थः / किम्भूतम् ? 'नमो' नः-ज्ञानं, मः-शिवं तयोः ऊः-प्राप्तिः यस्मात् / यत् कर्मण्युदिते परमज्ञानं मोक्षश्च प्राप्यत एवेत्यर्थः // 56 // (नमोत्तरीः हा-ऽन्ता) 'नमोत्तरीः' नमा-नमन्ती उत्-ऊर्ध्वं गच्छन्ती एवंविधा तरी नौः / 10 किम्भूता ? 'हान्ता' हं-जलं तस्य अन्तः-प्रान्तो यस्याः एवंविधा न स्यात् / क्षणं नमति क्षणाच्चोर्द्ध याति तया नावा जलप्रान्तो न स्यात् , जलप्रान्ते न गम्यते इत्यर्थः // 57 // (नृ-मोऽरि ह-ता-ऽऽनः) ना-पुरुषः तस्य मः-मस्तकः / किम्भूतः ? 'हतानः' “हः शूलिनि करे नीरे" (सुधा० श्लो० 45.) इति हः-ईश्वरः तस्य ता-शोभा तां आनयति-वर्धयति [इति] हतानः / नरमस्तको हि ईश्वरशोभाकरः तदाभरणं शिवस्य वर्तते / 'अरि सम्बोधने' // 58 // 15 (न म अजं र हता-ऽनम् ) अजं-विष्णुं, नम-प्रह्वीभव / किम्भूतम् ? 'हतानः' हतः अनःशकटदैत्यो येन तम् / 'इ-जे-राः पादपूरणे' (सिद्ध० 8. 2. 217.) इति सूत्राद् इकारमुक्तो रेफः पादपूरणे // 59 // ____(न मा अजोऽरिहन्ता णम् ) अजः-रघुतनयः, अरिहन्ता-सर्ववैरिविनाशी अभूत् / 'ण' अलङ्कारे 'मा' 'न' इति निषेधद्वयं प्रकृतार्थम् // 60 // 20 ___ (नृ-मोदं रह तानम् ) 'नमो अरहंताणं' अयमपि पाठोऽस्ति / ताना एकोनपश्चाशत् , तानंगीतगानं, रह-जानीहि / 'रहुण् गतौ' (सिद्ध० धा०)। गत्यर्थाश्च ज्ञानार्थाः। तानं किम्भूतं ? 'नृमोदं' नृणां पुरुषाणां मोदो यस्मात् // 61 // (न मोचय अर्हदाज्ञाम् ) अनेन पदेन अनुयोगचतुष्टयं व्याख्यायते / अरहंताणं अर्हदाज्ञां न मोचय / मोचा-शाल्मली मोचां करोति मोचयति / मध्यमपुरुषैकवचने मोचयेति सिद्धम् / शाल्मलि- 25 तुल्यामसारां जिनाज्ञां मा कुरु / तत्त्वरूपां तां जानीहि इति चरणकरणानुयोगः // 62 // ___(नमः अर्हन्नकं त्राणम् ) 'अरहं' अर्हन्नकं साधु, त्राणं-शरणभूतं नमस्कुरु / पदैकदेशे पदसमुदायोपचारात् अरहं-अर्हन्नकम् / इति धर्मकथानुयोगः // 63 // 1. अनेन विग्रहेण 'नमो' इति पदस्य कर्मविशेषणत्वे संशीतिः; नपुंसकत्वे हखेन भाव्यम् / 2. अत्र रह' इति रूपेण भवितव्यम्, अनुखाराभावश्चित्रत्वात् / चान्द्रमते णिचोऽनित्यात्वाणिजभावे 'रह इति सिद्धम् /