________________ [प्राकृत नमस्कारान्तगत-पदविशेषानेकार्थाः / (नमोऽजा-ऽर्ह-ता-अणं) अजः-सर्वज्ञः तस्य अर्हः-पूजा तस्य तां-शोभा अणति वदति उपदिशति यः तं पुरुषं [प्रति ] नमोऽस्तु / पूजास्थापकः पूजार्हः स्यादित्यर्थः // 43 // (न मोऽर्हा-ऽन्ता-ऽणः) “अन्तःस्वरूपे निकटे, प्रान्ते निश्चय-नाशयोः / अवयवेऽप्यथाऽर्हन् स्यात् , पूज्ये तीर्थकरेऽपि च // " (हैमे का० 2, श्लो० 171.) इति वचनाद् मः शिवोऽस्ति / किंभूतः ? 'अन्तिाणः' अर्ह-सर्वेषां योग्यम् अन्तः-स्वरूपं तस्य अण–उपदेष्टा / 'अण शब्दे' (सिद्ध० धा० ) / “मश्चन्द्रे [च] विधौ शिवे" (सुधा० श्लो. 34) इत्येकाक्षरनिघण्टुः / ईश्वरः सर्वपदार्थयथास्थितवादी न स्यात् , तदुक्ततत्त्वव्यभिचारात् // 44 // ( नमोऽजा-अरिहं ता-ऽणं ) अजः-छागः तेन, 'ऋक् गतौ' ( सिद्ध० धा० ) इयर्ति अजारीः10 छागवाहनो वह्निः शीलार्थ इन् / तं 'हिंट् गति-वृद्ध्योः' (सिद्ध० धा०) हाययति-वर्धयतीति अजारिहःवह्निवर्धकोऽमिहोत्री, तं पुरुष नमोऽस्तु इत्युपहासः / तं किम्भूतम् ? 'ताणं' तां-शोभाम् अणति ताणः, वयं अग्निहोत्रिण इत्यभिमानी // 45 // (न मोचां अलि-हन् अत णं ) "मोचा शाल्मलि-कदल्योर्मोचा शिग्रौ" इत्यनेकार्थः (हैम० का० 2, श्लो० 73.) मोचा-शाल्मली तां त्वं न अत / 'अत सातत्यगमने' (सिद्ध० धा०) मा 15 गच्छेति / यतः 'अलिहन्' अलीनां-भ्रमराणां हन्-गमनं, णं-निष्फलं वर्तते / 'हनंक हिंसा-गत्योः' (सिद्ध० धा०) विचि रूपम् / भ्रमराणां भ्रमणं निष्फलं, सौरभरहितत्वात् / ततस्त्वं मा गच्छेति मित्रस्योक्तिः // 46 // (नमोऽरि-हतेभ्यः) अरयः वैरिणः अष्टविधकर्माणि / यदुक्तं (आवश्यकनियुक्तौ गा० 920.) "अट्ठविहं पि अ कम्मं अरिभूअं होइ सव्वजीवाणं / तं कम्ममरिं हंता अरिहंता तेण वुच्चंति // " 20 इति तैर्हतेभ्यः कर्मपीडितेभ्यो नमोऽस्तु / इति उपहासनमस्कारः // 47 // (न मोचं अर्हत्-त्राणम्) 'अरिहं' अर्हन्–तीर्थकरः तस्य त्राणं-शरणं, न मोचन मोच्यमिति // 48 // (न मोचं अर्हत्-त्राणम् ) अर्हन्-तीर्थकरैः तस्य त्राणं-शरणं न मोच्यम् // 49 // (न मोचं अरि-ह-त्राणम् ) अरि-अष्टविधं कर्म हतवन्तः ते अरिहाः-सिद्धाः तेषां त्राणं शरणं न मोच्यम् // 50 // 25 (न मः मोदा-ऽरि-हतानाम् ) मोदारिः-शोकः तेन हताना-पीडितानां न मः--शिवं न स्यात् // 51 // (न मोदोऽरि-हतानाम् ) अरिहतानां-बाह्यवैरिपीडितानां न मोदः-हर्षो न स्यात् // 52 // (नमः अरि हतेभ्यः) अरि इति अव्ययं, सम्बोधने / हतेभ्यो निन्धेभ्यो नम इत्युपहास्यम् // 53 // 1 'नमो० अरिभिर्हतानाम्-अष्टविधकर्मपीडितेभ्यो नमः-उपहासनमस्कारः' इति ख-पाठः / 2 'जिनः' इति ख-पाठः।