________________ विभाग] नमस्कार स्वाध्याय / (नमोदरि-हं ता अनः ) ता-तावत् अनः-शकटं वर्तते / किंभूतम् ? 'नमो अरिहं' नमोदरिहं नम-नमत् नीच्चैर्भवत् पुनः उत्-उच्चैर्भवत् एवंविधं यद् अरिचक्रं ताभ्यां हन्ति-गच्छति / शकटं हि चक्राभ्यां चलतीति // 33 // ' (न मोऽरि-हन्ता णं ) मः-ईश्वरो वर्तते / किंभूतः ? 'अरिहन्ता' अरं-शीघ्रम् , इ:-कामः तस्य हन्ता 'ण' अलङ्कारे // 34 // (न ओजोऽहं ता-ऽणः) ता-शोभा तत्प्रधानोऽणः-शब्दः साधुशब्दो यशः / 'न ओजोह' ओजो-बलं तस्य योग्यं न, बलेन यशो न स्यादित्यर्थः / मकारोऽलाक्षणिकः / 'अणं' इत्यत्र 'लिङ्गमतन्त्रम्' (सिद्ध० 8. 4. 445.) इति क्लीबत्वेन न दोषः // 35 // (नामूः अरमिभान्ता-ऽणः) अरम्-अत्यर्थम् / इभान्तः-हस्तिविनाशी सिंहः तस्य, अणःशब्दः; सिंहनाद इत्यर्थः / तं त्वं अय-प्राप्नुहि / इति सुभटस्योच्यते / यतो अमूः बन्धनं न स्यात् / 10 'स्वराणां स्वराः' ( सिद्ध० 8. 4. 238.) इत्योकारः // 36 // (नमोऽजारि-हन्तृभ्यः) “अजश्छागे हरे विष्णौ रघुजे वेधसि मरे" (हैमे का० 2, श्लो० 80.) इत्यनेकार्थवचनाद् अजः-ईश्वरः सोऽरिर्यस्य सः अजारिः-कन्दर्पः, तस्य हन्तृभ्योनीरागेभ्यो नमः // 37 // ___(न मा ओ! अ-लिहं त्राणम् ) कस्यचिद् धनवतो धर्मपराङ्मुखस्योच्यते / 'लिहीक् आस्वादने' 15 (सिद्ध० धा० ) लिहनं लिहः बाहुलकाद् भावे कः / न विद्यते लिहो यस्य [ तद् ] अलिहम्-अभक्ष्यत्वं अज-क्षिप, त्यजेत्यर्थः / अवतेर्वृद्धयर्थात् क्विपि औस्तस्यामन्त्रणे हे ओ! धनवृद्ध ! मा-लक्ष्मीः त्राणं न भवतीति, विरतिरेव त्राणं स्यादिति अभक्ष्यार्थं त्यजेत्यर्थः // 38 // . (न मोचः अज-लिह-तानाम् ) अजः-छागः तं लिहन्ति भक्षयन्तीति अजलिहाः। एवंविधास्ताःतस्करास्तेषां मोचो-मोक्षो न स्यात् / ते कर्मभिः न मुच्यन्ते इत्यर्थः / मोचनं मोच इति 20 णिगन्तादच् // 39 // (न मोचा लिह-ता न ) मोचा-कदली वर्तते / किंभूता ? लिह:-भोज्यं तस्य ता-शोभा यस्याः सा / भोज्ये सारभूता / न नेति निषेधद्वयं प्रकृतार्थम् // 40 // - (न मा अर्हा-ऽन्ता णं ) अर्हा-पूजा तस्या अन्तो-विनाशो यस्यां सा अन्तिा / ईदृशी मा-लक्ष्मीः न भवति / लक्ष्मीः सर्वत्र पूजां प्रामोतीत्यर्थः / 'ण' अलङ्कृतौ // 41 // 25 (न मोऽजा-रि-हन्ता न ) मातीति मः 'क्वचिड्डः' (सिद्ध० 5. 1. 171.) प्रमाणवेदी पुरुषः / किंभूतः ? अजः-परमात्मा तस्य अरिः-निषेधकः, प्रतिवादीति यावत् , तस्य हन्ता निवारकः / परमेश्वरं यो न मन्यते तं निवारयति / प्रमाणवेत्ता पुरुषः, सर्वज्ञं स्थापयतीत्यर्थः / नञ्द्वयं प्रकृत्यर्थे // 42 // 1. 'कर्ममुक्तिर्न स्यादित्यर्थः' इति ख-पाठः / 2. अलङ्कारे इति ख-पाठः।