________________ नमस्कारान्तर्गत-पदविशेषानेकार्थाः। [प्राकृत (नमोऽर्हद्भ्यः ) अर्हन्तः-सामान्यकेवलिनः तेभ्यो नमः // 20 // (नमोऽर्हद्भ्यः ) अर्हद्भ्यः पूज्येभ्यो मातापित्रादिभ्यो नमः // 21 // (नं ओ अर्हन्तं अत णं) 'ओ' इति सम्बोधने / नं-बुद्धिं अर्हन्त-प्राप्नुवन्तं बुद्धिनिधानं मन्त्रिणम् / 'अत सातत्यगमने' (सिद्ध० धा०)। अत–जानीहि / 'गत्यर्था ज्ञानार्थाः' इति / 'स्वराणां 5 स्वराः' (सिद्ध० 8. 4. 238.) इत्याकारः / 'ण' वाक्यालङ्कारे // 22 // (नमोऽर्हतः) अर्हतः-स्तुल्यान् सत्पुरुषान् [प्रति] नमः, सुग्-द्विषार्हः सत्रि-शत्रु-स्तुल्ये इति ( सिद्ध० हे० 5. 2. 26) // 23 // (नं अर्हतः उअ) नं-ज्ञानम् , अर्हतः प्राप्तान् श्रुतकेवलिनः / 'उअ पश्य' ( सिद्ध० 8. 2. 212.) // 24 // 10 (न-मा-ऊ-अरिहं ता अणं) नं-ज्ञानं तस्य मा-प्रामाण्यम् / उ:-धारणं तस्य अरिहं योग्यं / ज्ञानप्रामाण्यवादिनं जनं त्वं अण-वद / 'अणरण [वण-व्रण-बण-भण-श्रण-मण-धण-ध्वण-ध्रण-कण-कण-चण शब्दे ]' ( सिद्ध० धा० ) इति दण्डकधातुः / ता-तावत् प्रक्रमे / अन्तेऽनुस्वारः प्राकृतत्वात् // 25 // (नमः अर्हा-ऽन्त-अणं) अर्हः-प्रान्तोऽन्तो यैः / एवंविधा 'अण'त्ति अनन्तानुबन्धिनो यस्य तम् , पदैकदेशे पदसमुदायोपचारात् / सम्यग्दृष्टिपुरुषं क्षायिकसम्यक्त्ववन्तं प्रति नमः // 26 // 15 (नम उत-लिहं त्राणं ) त्राणं-भोजनभाजनमण्डनयोग्यं वस्तु, तं नम-अन्तर्भूतणिगर्थत्वात् प्रह्वीकुरु, मण्डयेति भोजनकारिवचः / तत् किंभूतम् ? उतं-सम्बद्धं, लिहं-भोजनं यस्मात् [ तत् ] // 27 // (नमौको-हं तार्णम् ) ताण-तृणसमूहो वर्तते / किंभूतम् ? नम-नमत् कुटीरप्रायं यत् ओको-गृहं तस्याः तृणैराच्छाद्यते गेहमिति // 28 // ( न मोदा-रि-हं तृणम् ) तृणं वर्तते / किंभूतम् ? 'मोदारिहं' मोदो-हर्षः तत्प्रधाना अरयस्तान् 20 हन्ति-हिनस्ति मोदारिहम् / 'न' इति निषेधे / तृणमुखास्ते वैरिणो जीवन्तीत्यर्थः // 29 // (न-मोदा-ऽरि हन्त ऋणम् ) ऋणं वर्तते / 'हन्त' इति खेदे / किंभूतम् ? 'नमोदारि' नं-बुद्धिः मोदः-हर्षः तस्य अरिः-वैरिभूतं वर्तते / ऋणे सति बुद्धिहर्षों नश्यत इत्यर्थः // 30 // (नं मोऽरिभा-ऽतः णं) अरिभं-रिपुनक्षत्रं तत्र अतः गमनं यस्य सः / 'अत सातत्यगमने' (सिद्ध० धा० ) एवंविधो मः-चन्द्रः / नं–बन्धनं, विग्रहमित्यर्थः तम् / “णकारो निष्फले प्रकटे च" 25 ( सुधा० एकाक्षरनाममाला श्लो० 22) इति वचनात् णं-निष्फलम् / करोतीत्यध्याहारः / “अरिहन्ताग्रे प्रथमैकवचनस्य व्यत्ययोऽप्यासाम्" ( ) इति वचनादपभ्रंशापेक्षया 'स्यम्-जस्-शसां लुक्' (सिद्ध० 8. 4. 344.) इति लुक् / एवमन्यत्रापि ज्ञेयम् // 31 // (न मोऽरि-भं आकः अणं ) भशब्देन राशिरप्युच्यते, भवनमपि, ततो अरिभं-रिपुभवनम् / यदा मः-चन्द्रो न आकः-न प्राप्तः तदा अणं-सफलं कार्य स्यादिति शेषः / षष्ठभवने चन्द्रस्त्याज्य इत्यर्थः॥३२॥