________________ विभाग] नमस्कार स्वाध्याय। (न-मोदा-ऽऽरि भ-त्राणम् ) 'हंताणं' भानि नक्षत्राणि तेषां त्राणं-रक्षणं यस्य, सर्वनक्षत्रत्राता, चन्द्रः इत्यर्थः / “पश्यत' इति क्रियाऽध्याहारः / चन्द्रं किंभूतम् ? 'नमोदारि' नो-बुद्धिः मोदो-हर्षः आर:-प्रापणम् , आरो विद्यते यस्य स आरी, बुद्धिमोदयोः आरी / शुभे चन्द्रे हि शुभा बुद्धिः हर्षश्च प्राप्यते / 'आरि' इत्यत्रानुस्वाराभावो न दोषाय, चित्रत्वात् / 'ख-ध-थ-ध-भां हः' (सिद्ध० 8. 1. 187.) इत्यादौ भकारस्य हकारः क्वचित् आदावपि भवतीति वचनात् , बाहुलकाच्च // 10 // (न-मोदा-ऽहं त्राणं ) त्राणं-सत्पुरुषशरणं वर्तते / किंभूतम् ? 'नमोदाई' नो-ज्ञानं मोदो-हर्षः तयोः अर्ह-योग्यम् // 11 // (नृ-मोदह तानम् ) तानं-वस्त्रम् / लोके हि तानकयोगाद् वस्त्रनिष्पत्तिः / कारणे कार्योपचारात् तानं-वस्त्रम् / किंभूतम् ? 'नमो अरिहं' नृणां-मनुष्याणां मा-शोभा, तस्या उदर्ह-भृशं योग्यम् , मनुजशोभाकारि इत्यर्थः // 12 // 10 __ (नमोदरी हन्त आ-नम् ) 'हन्त' इति खेदे / नम-नमत् कृशं उदरं यस्याः सा नमोदरी-कृशोदरी, स्त्री इत्यर्थः / सा 'आनं' आ-समन्ताद् नं-बन्धनम् / स्त्रियः सर्वत्र बन्धनरूपा इति // 13 // (नम अर्हदाज्ञाम् ) 'अरिहंताणं' अर्हदाज्ञां प्रति नम-प्रह्वीभवेति शिष्यस्य कथनम् // 14 // (न मोपरि हन्ता ) मः शिवः / 'शिव'शब्देन मोक्षो ज्ञेयः / तस्य उपरि हन्ता-गन्ता न वर्तते कश्चिद् जीवः, मुक्तरुपरि अलोकसद्भावेन कस्यापि गमनाभावात् / 'हन्ता' इत्यत्र 'हनं हिंसा-गत्योः' 15 (सिद्ध० धा०) इति गत्यर्थः // 15 // - (न म उअ र इह अ-तानम् ) इह-जगति अं-परब्रह्म तस्य तानं-विस्तारं त्वं 'उअ पश्य' (सिद्ध० 8. 2. 211.) सर्वस्मिन् जगति ब्रह्मैवास्तीति वेदान्तिमतम् / न मः-विधाता, "मश्चन्द्रे [च ] विधौ शिवे" (श्रीसुधाकलशप्रणीतायामेकाक्षरनाममालिकायां श्लो० 34.), विधाता-जगत्कर्ता कोऽपि तन्मते न वर्तते इत्यर्थः // 16 // (न मा ऊ अ रि हा-ऽतानम् ) न विद्यते रा-द्रव्यं यस्य तद् अरि, निद्रव्यं कुलमित्यर्थः / तत् किम्भूतम् ? 'हंताणं' हो-निवासः तस्य अतानं-लाघवं यस्य तत् / निर्घनस्य गृहलाघवं स्यात् / तानोविस्तारः, अतानं लाघवम् / 'न मा' इति निषेधद्वयं प्रकृतमथं ब्रूते / 'ऊ' इति पूरणे // 17 // . (नमोत्परिघं ता-ऽऽ-नम् ) तः-तस्करः तस्य आ-समन्ताद् नं-बन्धनम् / किंभूतम् ? 'नमोत्परिघं' नमन्-आरतः परतोऽपि द्वारादिषु मिलन् उत्-प्रबलः परिघः-अर्गला यत्र तदेव चौरबन्धनं स्यात् // 18 // 25 (न मा ऊ अरि-ह सन्तानम् ) अरी-प्राप्नुवन् हकारो यत्र / एतावता सकारः तस्मात् अन्तानं इति योज्यते / तदा स(सा? )-तानं इति स्यात् / ततः सन्तानं मा-लक्ष्मीः च ऊ:-रक्षणं न स्यात् , दुर्गतिपातत इति // 19 // . 1. 'गमनं नास्ति' इति ख-पाठः। 2. उअ पश्येत्यस्यार्थे श्रीहेमचन्द्रसूरिभिः प्राकृतव्याकरणस्य खोपज्ञवृत्तौ निर्दिष्टेयं गाथा यथा "उअ निचलनिप्फंदा भिसिणी पत्तम्मि रेहइ बलाआ // " 20