________________ [3] नमस्कारान्तर्गत-पदविशेषानेकार्थाः / (1) पण्डितगुणरत्नमुनिवरकृता नमस्कारप्रथमपदार्थाः॥ ( नमोर्हद्भ्यः ) नमो अरिहंताणं / नमोऽर्हद्भ्य इति मुख्योऽर्थः // 1 // ( नमोऽरि-हन्तृभ्यः ) अरयः वैरिणस्तेषां हन्तारः अरिहंतारः-सर्ववैरिविनाशकाः, चक्रवर्तिनः 5 इत्यर्थः, तेभ्यो नमोऽस्तु इति तत्सेवकवचः // 2 // ( नमोऽरि-हन्तृभ्यः ) अथवा अरा विद्यन्ते यत्र तत् अरिचक्रं, तेन हन्तारो वैरिविनाशकाः, चक्रवर्तिन इत्यर्थः, तेभ्यो नमोऽस्तु // 3 // (न-मोदा-ऽरि ह-त्राणम् ) हो-जलं तस्य त्राणं-रक्षणं, सरोवरमित्यर्थः, तद् वर्तते किंभूतम् ! मोदो-हर्षः तस्य अरिरिव अरिः शोकः, न विद्यते मोदारिः-शोको यस्मात् तद् नमोदारि / नखादि10 गणान्नोऽवस्थानम् / “प्रक्रियां नातिविस्तरां" ( सारस्वतादौ ) इत्यादिवत् // 4 // (नम ओ अरि-हं त्राणम् ) अरि-चक्र हन्ति-गच्छति प्राप्नोति इति अरिहं-चक्रधरं, विष्णुम् / 'नम' इति क्रियापदं पञ्चम्या मध्यमपुरुषैकवचने / किंभूतं विष्णुम् ? त्राणं शरणभूतं, तत्सेवकानाम् / 'ओ' इति सम्बोधने // 5 // (नमोदलि ह-तानं ) हो-जलं तस्मात् तानो-विस्तारः उत्पत्तिः यस्य तत् हतानं-कमलम् / [ तद् ] 15 वर्तते / किंभूतम् ? 'नमोदलि' नमः-प्रतीभावः तेन उत्-प्रबला उद्धता अलिनः-भ्रमरा यत्र एवंविधम् / अनुस्वाराभावः चित्रत्वात् , रलयोरक्यं च तस्मादेव // 6 // (नमोदरि हन्ता-ऽऽनम् ) नमो अरि० / नम-नमत् उदरं नमोदरं, नमोदरं विद्यते यस्य तत् नमोदरि, बुभुक्षाक्रान्तोदरं भिक्षाचरवृन्दमित्यर्थः / तद् वर्तते, किंभूतम् ? 'हन्ताणं' हन्तशब्देन भिक्षा उच्यते / देशीभाषया हन्त-भिक्षा, तया आनं-जीवनं यस्य [ तत् ] हन्तानम् // 7 // 20 (न मोअ-लिह-त्राणम् ) मोअशब्देन प्रश्रवणम् / 'अणाहारे मोअनिंबाइ' इति प्रश्रवणस्य लिहः-पानकारी / 'लिहीक् आस्वादने' (सिद्ध० धा० ) तस्यैवंविधकष्टकर्तुरपि त्राणं शरणं न स्यात् / ज्ञानं विनेत्युपस्कारः / “सोपस्काराणि सूत्राणि भवन्ति” इति न्यायः // 8 // __(न मौकलि-हत्रा-ऽऽनम् ) मौकुलिः-वायसः 'स्वराणां स्वराः' (सिद्ध० 8. 4. 238.) इत्यकारः / तस्य हन्ता-घातकः, तस्य आनं-जीवनं न स्यात् / लोके हि एवं रूढि:-"वायसस्य भक्षकश्चिरजीवी स्यात् / " तत्रायं अर्थो न समर्थः / तस्य हननेऽपि अधिकं जीवनं नैवेत्यर्थः // 9 // नोंध पं. गुणरत्नमुनिकृत-'नमस्कारप्रथमपदार्थाः' अने श्रीदेवरत्नसूरिए रचेल 'पञ्चमपदगत'सव्व'-शब्दनी अनेकार्थीनो अनुवाद शब्दशास्त्रीओने मूळथी ज जाणी शकाय एवो छे तेथी तेनो अनुवाद पण अहीं आप्यो नथी. 1. 'नखादयः' इति सिद्धहमे (3-2-128) 2. 'अलयः' इति ख-पाठः। 3. श्रीदेवेन्द्रसूरिकृतस्य प्रत्याख्यानभाष्यस्य पञ्चदशगाथायाश्चतुर्थचरणमिदम् / सम्पूर्ण गाथा चैवम् "खाईमे भत्तोसफलाइ साइमे सुंठि-जीर-अजमाइं। महु-गुड-तंबोलाइ. अणाहारे मोअनिंबाइ॥" .