________________ 28 -10 नमस्कारान्तर्गत-पदविशेषानेकार्थाः। [प्राकृत अथ प्रकारान्तरैः साधुगुणविशेषप्रकटीकरणार्थ प्राकृतभाषामयं 'सव्व' इति पदं विव्रीयते / 3. सार्वाः। सार्वो जिनस्तस्येमे सार्वाः। ते च ते साधवश्च सर्वसाधवः / जिनोक्तद्रव्य-भावलिङ्गधारिणो जैनमुनय इत्यर्थः / अस्यामवसर्पिण्या श्रीपुण्डरीकाद्याः / "पंच य पुत्तसयाई, भरहस्स य सत्त नत्तूयसयाई / सयराहं पव्वइया, तम्मि कुमारा समोसरणे // 5 // " ___4. शर्वो रुद्रस्तत्समाः / अनङ्गस्य तथा राग-द्वेष-मोहरूपत्रिपुरु [षैः ] वा भस्मीकरणात् / सकलकर्मशत्रून् प्रति संहारमूर्तित्वाद् वा / शर्वा इव शर्वाः, ते च ते साधवश्च शर्वसाधवः / भावसाधुशिवकुमारवत् / "धन्नो सो सिवकुमरो, जो पणसयइत्थिअग्गिकुंडम्मि / वसमाणो वि न दद्धो, मयणाइरिऊण संहरणो // 6 // " 5. श्रव्याः / श्रोतुमुचिता दाक्षिण्य-क्षान्त्यादिगुणैः श्रवणीयचरिताः, ते च ते / श्रीचण्डरुद्राचार्यशिष्यादिवत् / __“केइ सुसीला सुहम्माइ सजणा गुरुजणस्स वि सुसीसा / विउलं जणंति सद्धं, जह सीसो चंडरुदस्स // 7 // " 15 6. श्राव्याः / श्रावणीयचरित्रा अन्येषां प्रत्यनीकनिराकरणेन प्रव[ च ]नप्रभावनादिभिः / विष्णुकुमारादिवत् / " जो तित्थस्स पभावणमकासी वेउव्विदेहलद्धीए। , तं विण्डं गयतिण्हं, नमामि पत्तं सिवपुरम्मि // 8 // " (2-22) * 7. सव्याः / अनुश्रोतः सुखात् संसारसागरात्, कष्टानुष्ठानपरतया प्रतीपगामित्वात् प्रतिकूला 20 भवाद् वामगामिन इत्यर्थः / "अणुसोअसुहो लोओ, पडिसोओ आसवो सुविहियाणं / अणुसोओ संसारो, पडिसोओ तस्स उत्तारो // 9 // " मृगापुत्रादिवत् / " दद्दूण समणमणहं सरित्तु जाई य भवविरत्तमणो / अणुचरिउं मियचरियं, मुक्ख पत्तो मियापुत्तो // 10 // " (5-93) 8. साव्याः / सां लक्ष्मी विविधलब्धिरूपां तदनुपजीवकत्वेन व्ययन्ति संवृण्वन्तीति साव्याः / श्रीसनत्कुमारचक्रिसाध्वादिवत् / 1 उपदेशमाला 167 * अहीं गाथाओना ( ) आवा कौंसमा अंक आप्या छे ते श्रीधर्मघोषसूरिकृत 'ऋषिमंडलप्रकरणना छ। तेमा प्रथम अंक विश्रामनो अने बीजो अंक गाथानो समजवो। जेम बीजा विश्रामनी आ बावीसमी गाथा छे, तेम अहीं बधे समजवू। 2 श्रीदशवकालिकसूत्रम्, चूलिका 2, गा०३।