________________ पर. 10 विभाग] नमस्कार स्वाध्याय / _ नमो नमस्कारः / केभ्यः ? 'आचार्येभ्यः' स्वयं पञ्चविधाचारवन्तोऽन्येषामपि तत्प्रकाशकत्वाद आचारे साधवः आचार्यास्तेभ्यः इति 'तत्पुरुषः' / यथा (आव० नम० 448 तमे पत्राङ्के, विशेषावश्यकेऽपि गा० 3190) " पंचविहमायारं, आयरमाणा तहा पयासंता / आयारं दंसंता, आयरिया तेण वुच्चंति // " 'अनुयोगकृदाचार्यः' इति हैमः (अभिधानचिन्तामणौ का० 1, श्लो० 78 ) // 3 // नमो-नमस्कारः / केभ्यः ? 'उपाध्यायेभ्यः' उप एत्य-समीपमागत्य येभ्यः सकाशादधीयन्त इत्युपाध्यायाः तेभ्यः इति 'तत्पुरुषः' / यदुक्तं ( आव० नम० 448 तमे पत्राङ्के, विशेषावश्यकेऽपि गा० 3197) "बारसंगो जिणक्खाओ सज्झाओ कहिओ बुहेहिं / तं उवइसंति जम्हा उवज्झाया तेण वुच्चंति // " "उपाध्यायस्तु पाठकः” इति हैमः (अभि. का. 1 श्लो. 78 ) // 4 // नमः नमस्कारः / केभ्यः ? 'लोके सर्वसाधुभ्यः' / लोके-मनुष्यलोके सम्यग्ज्ञानादिभिर्मोक्षसाधकाः सर्वसत्त्वेषु समाश्चेति साधवः, सर्वे च ते स्थविरकल्पिकादिभेदभिन्नाः साधवश्चेति सर्वसाधवस्तेभ्यः इति 'कर्मधारयः' / यथा “निव्वाणसाहए जोए, जम्हा साहंति साहुणो। समा य सव्वभूएसु, तम्हा ते सव्वसाहुणो” // 5 // एष पञ्चनमस्कारः / एष-प्रत्यक्षो विधीयमानः पञ्चानामर्हदादीनां नमस्कारः-प्रणामः / स च कीदृशः ? 'सर्वपापप्रणाशनः' सर्वाणि च तानि पापानि च सर्वपापानि इति 'कर्मधारयः' / सर्वपापानां प्रकर्षेण नाशनो-विध्वंसकः सर्वपापप्रणाशनः इति 'तत्पुरुषः' / सर्वेषां द्रव्य-भावभेदभिन्नानां मङ्गलानां 20 प्रथममिदमेव मङ्गलम् / 'होइ मंगलं' इति पाठस्त्वप्रामाणिकः, सर्वत्र "हवइ मंगलं" इत्येव दर्शनात् / चः समुच्चये / पञ्चसु पदेषु चतुर्थ्यर्थेषु षष्ठी / अत्र चाष्टषष्टिरक्षराणि, नव पदानि, अष्टौ च सम्पदोविश्रामस्थानानि, तत्र सप्त एकैकपदा, अन्त्या तु द्विपदा इति नमस्कारार्थः // 6-9 // 15 (2) श्रीहर्षकीर्तिमूरिकृता व्याख्या // प्रणिपत्य जिनं वक्ष्ये, सप्तस्मरणेषु विवरणं किञ्चित् / यस्मान्मन्दमतीनामपि भवति सुखेन तद्बोधः // 1 // 25 : यतः पर्वदिनेषु सकलश्रेयोऽर्थ क्षुद्रोपद्रवादिदोषनिवारणार्थं च कारणादौ सुखशान्त्यर्थं च सप्त मिलितानि] एव स्मर्यन्ते-गुण्यन्त इति सप्त स्मरणान्युच्यन्ते / तेष्वादौ चतुर्दशपूर्वाणामादिभूतं अनाद्यनन्तं