________________ सप्तसु स्मरणेषु प्रथमं नमस्कारस्मरणम् / [प्राकृत च पञ्चपरमेष्ठिनमस्काररूपं प्रथमस्मरणमादौ व्याख्यायते 'नमो अरिहताणं' इत्यादि / अत्र पाठत्रयम्अरहंताणं, अरिहंताणं, अहंताणं / तत्र अर्हन्ति सुरेन्द्रादिकृतां पूजां इत्यर्हन्तः तेभ्योऽहभ्यः / अरीन्-रागद्वेषादीन् घ्नन्तीति अरिहन्तारः तेभ्योऽरिहन्तृभ्यः। न रोहन्ति–नोत्पद्यन्ते दग्धकर्मबीजत्वात् , पुनः संसारे न जायन्ते इत्यरुहन्तः तेभ्योऽरुहभ्यो नमो नमस्कारोऽस्तु / प्राकृतत्वात् चतुर्थ्यर्थे षष्ठी // 1 // 5 तथा नमः सिद्धेभ्यः / 'षिञ् बन्धने' (पाणिनीयधातुपाठे 1478) सितं-बद्धं प्रस्तावादष्टविधं कर्म तद् धमिति ध्मातं-शुक्लध्यानामिना दग्धं-भस्मीकृतं यैस्ते निरुक्तिवशात् सिद्धाः / यद्वा सिद्धिगतिनामधेयं स्थान प्राप्ताः सिद्धाः / यद्वा सिद्धाः-सुनिष्ठितार्था मोक्षप्राप्त्या अपुनर्भवत्वेन सम्पूर्णार्थास्तेभ्य सिद्धेभ्यो नमः // 2 // तथा नम आचार्येभ्यः / स्वयं ज्ञानादिपञ्चविधाचारवन्तोऽन्येषामपि तत्प्रकाशकत्वाद् आचारे 10 साधव आचार्याः तेभ्यः / योग्यः कुशलो हितश्च साधुरुच्यते // 3 // तथा नम उपाध्यायेभ्यः / उप-समीपमागत्य येभ्यः सकाशादघीयत इत्युपाध्यायाः / अथवा उप-समीपे अध्यायो-द्वादशाझ्याः पठनं सूत्रतोऽर्थतश्च येषां ते उपाध्यायाः तेभ्यः उपाध्यायेभ्यो नमः // 4 // * तथा नमो लोके सर्वसाधुभ्यः / सम्यग्ज्ञान-दर्शन-चारित्रादिभिः साधयन्ति मोक्षमार्गमिति 15 साधवः / लोके-सार्धद्वयद्वीपलक्षणे पञ्चचत्वारिंशल्लक्षयोजनप्रमाणे मनुष्यलोके सर्वे च ते साधवश्च / यद्वा सार्वस्य–अर्हतः साधवः सार्वसाधवः, तेभ्यो नमः-नमस्कारोऽस्तु // 5 // एषः-पूर्वोक्तः 'पञ्चनमस्कारः' पञ्चानाम् अर्हत्-सिद्धाऽऽचार्योपाध्याय–सर्वसाधूनां नमस्कारःप्रणामः, सर्वपापप्रणाशनः ( समस्तदुरित ) निवारकः / पुनः सर्वेषां मङ्गलानां–मङ्गलकारकवस्तूनां दधि-दूर्वा-ऽक्षत-चन्दन–नालिकेर-पूर्णकलश20 स्वस्तिक-दर्पण-भद्रासन-वर्धमान-मत्स्ययुगल-श्रीवत्स-नन्द्यावर्तादीनां मध्ये प्रथमं- मुख्यं मङ्गलं मङ्गलकारको भवति / यतोऽस्मिन् पठिते जपिते' स्मृते च सर्वाण्यपि मङ्गलानि भवन्तीत्यर्थः // 6-9 // इदं च स्मरणमनादिभूतं, यतो जिनानां चतुर्विंशतयोऽनन्ताः सञ्जाताः अनन्ताश्च भविष्यन्ति तदा सदैवेदमेव, अतोऽनाद्यनन्तमित्यर्थः // अत्र पदानि नव (9), सम्पदः अष्टौ (8), अक्षराणि अष्टषष्टिः (68), लध्वक्षराणि 25 एकषष्टिः (61), गुर्वक्षराणि सप्त (7 ) ज्ञेयानि // नागपुरीयतपोगण-राजः श्रीहर्षकीर्तिसूरिवरः / प्रथमस्मरणे व्याख्यां, सङ्केपाद् विहितवान् सम्यक् // // इति प्रथमस्मरणव्याख्या // १जते।