________________ 268 नवकारसारथवर्ण। [प्राकृत पञ्च पदानायः॥ [पञ्चपरमेष्ठिसाधन-विधि-फलम्] [1] ॐ नमो अरिहंताणं श्रीचन्द्रप्रभ-सुविधिनायौ श्वेतवर्णी सितध्यानेन ब्रह्मस्थाने मस्तकस्थितौ ध्यातव्यौ / पृथ्वीमण्डलतत्त्वे वर्तुलाकारौ पुरुषांशकौ, अ-आ स्वरौ, क-च-ट-त-प-य-श इति 5 सप्तभिर्व्यञ्जनैर्ध्यातव्यौ। नन्दातिथिभिः प्रतिपत्-षष्ठयेकादशीभिस्तिथिभिः सहितौ, सोम-मङ्गलवारसंयुक्तौ, [वृष ? ]कन्या-कुम्भराशिसहितौ, कार्तिक-चैत्रमासयुक्तौ, कृत्तिका-रोहिणी-उत्तराफाल्गुनी-हस्त-धनिष्ठाशतभिषक्-पूर्वाभाद्रपदसप्तन(भिन)क्षत्रैर्ध्यातव्यौ, गौल्याम्लास्वादसहितौ / 'ॐ ह्री” (हां) अर्हते नमः' अनेन मन्त्रेण मुक्तत्वं खेचरत्वं च लभ्यते // इति प्रथमपदाम्नायः॥१॥ [2] ॐ नमो सिद्धाणं पद्मप्रभ-वासुपूज्यौ रक्तवर्णी रक्तध्यानेन पूर्वस्यां दिशि मुखस्थितौ 10 ध्यातव्यौ / आकाशमण्डलतत्त्वे त्रिकोणौ, स्रयंशको, इ-ई-ए-ऐ स्वरैः; ख-छ-ठ-थ-फ-र-ष सप्तभिर्व्यञ्जनैः सहितौ [ध्यातव्यौ], भद्रातिथि[भिः] द्वितीया-सप्तमीद्वादशी[भिः] तिथि[भिः] सहितौ बुधवारसहितौ, वैशाख-मार्गशीर्षमासयुतौ, मेष-मीन-मकरराशियुतौ, अश्विनी-भरण्युत्तराषाढो(ढा-)[श्रवणोत्तराभाद्रपद-रेवती षड्भिर्नक्षत्रैः [ध्यातव्यौ], मधुरास्वादयुतौ / 'ॐ ह्रीं सिद्धाय नमः' अनेन ध्यानेन त्रैलोक्यवशीकरणं त्रिभुवनमोहकत्वं च भवति // इति द्वितीयपदाम्नायः // 2 // 15 [3] ॐ नमो आयरियाणं ऋषभाजित-संभवाभिनन्दन-सुमति-सुपार्श्व-शीतल-श्रेयांस-विमला नन्त-धर्म-शान्ति-कुन्थ्वर-नमि-महावीराः षोडशजिनाः कनकवर्णाः पीतध्यानेन दक्षिणस्यां दिशि कण्ठस्थिताः, तेजोमण्डलतत्त्वे लोढाकाराः, नपुंसकांशकाः, उ-ऊ स्वराः, ग-ज-ड-द-व-ल-स सप्तभिर्व्यञ्जनैर्ध्यातव्याः। जयातिथि[भिः] तृतीयाष्टमी-त्रयोदशी[भिः] तिथिभिः सहिताः, पौष-ज्येष्ठ-भाद्रपदाश्विनमासयुताः, बृहस्पतिवारसहिताः, सिंह-वृश्चिकराशियुताः, मघा-पूर्वाफाल्गुन्यनुराधा-ज्येष्ठाचतुर्भिर्नक्षत्रैर्ध्यातव्याः। तिक्ता20 स्वादसहिताः / ॐ हूँ आचार्येभ्यो नमः' इति वाऽनेन ध्यानेन जल-ज्वलनादिषोडशपदार्थान् स्तनाति // इति तृतीयपदाम्नायः // 3 // [4] ॐ नमो उवज्झायाणं पार्श्वनाथ-मल्लिनाथौ मरकतवर्णी नीलध्यानेन ध्यातव्यौ / पश्चिमायां दिशि हृदयस्थितौ जलतत्त्वे, द्वितीयाचन्द्रकलाकारौ, राजपुरुषांशको, ओ औ स्वरौ, घ-श-ढ-ध-भ-व-ह सप्तभिर्व्यञ्जनैः सहितौ, रिक्तातिथि[भिः] चतुर्थी-नवमी-चतुर्दशी[भिस्तिथिभिः] युतौ, धन-मिथुनराशि-युतौ, भृगुवारसहितौ, 25 माघाषाढमाससंयुक्तौ, मूलपूर्वाषाढा-मृगशीर्षार्दा-पुनर्वसुपश्चभिर्नक्षत्रैः, कषायास्वादौ ध्यातव्यौ 'ॐ हौ उपाध्यायेभ्यो नमः' अनेन मन्त्रेण 'इहलोइयलाभकरा उवज्झाया इंतु सव्वभयहरणा' // इति चतुर्थपदाम्नायः // 4 // [5] ॐ नमो लोए सव्वसाहूणं मुनिसुव्रत-नेमिनाथौ कृष्णवर्णी कृष्णध्यानेनोत्तरस्यां दिशि चरणेषु ध्यातव्यौ। वायुतत्त्वे, दीर्घकलाकारौ, बहुप्रसिद्धलोकवन्द्यमानौ, अं-अः स्वरौ, ड-अ-ण-न-म-ल-क्ष सप्तभिर्व्यञ्जनैर्ध्यातव्यौ / पूर्णातिथि[भिः] पञ्चमी-दशमी-पूर्णिमातिथिभिः, शनि-रविवाराभ्यां च सहितौ, 30 फाल्गुन-श्रावणमासयुतौ, कर्क-तुलाराशिसहितौ, पुष्या-ऽऽश्लेषा-चित्रा-स्वाति-विशाखापञ्चभिर्नक्षत्रैर्ध्यातव्यौ / कटुकास्वादौ / 'ॐ हः सर्वसाधुभ्यो नमः' अनेन ध्यानेन 'पावुच्चाडन-ताडण-मारणनिउणा साहू सया सरह // इति पञ्चमपदाम्नायः // 5 // इति पञ्चपरमेष्ठिमन्त्रविधिः संपूर्णोऽस्तु / [A प्रतौ-ब()हत्खरतरगच्छे उपाध्यायश्रीशान्तिरतनगणीजी महाराजके पठनार्थ - धनसुख35 दासस्य भार्या सूरजकुवरबीबीने वहराया मी आसोज सुदी 10 सुक्र सं० 1953 का० जैपुरनगरे॥]