________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र अन्वयः-अहम् , श्रिया, अस्य, योग्या, इति, मदार्पणात् , स्वम् , इक्षितुम् , करे, दर्पणधारिणी, (काचित् ) अतादृशाङ्गाप्तिदशा, कृशाशया, शयालुतायाम् , अपि, निद्रया, जहे // 126 // वृत्तिः-अहम्-मल्लक्षणो जनः / श्रिया-शोभया / अस्य-बुद्धिविषयीभूतस्य श्रीमतः शान्तिनाथस्य / योग्या-सौन्दर्यादिप्रयोज्यसादृश्यवशादुपयुक्ता / अस्मीति शेषः / इति-हेतोः / मदार्पणात्मदस्य सौन्दर्यातिशयगर्वस्य अर्पणमवस्थापनं मदार्पणं तस्मात् तथा। 'मदो रेतसि कस्तूर्या, हर्षे गर्वेभदानयोः' इति मेदिनी / स्वम्-आत्मानम् / इक्षितुम्-अवलोकयितुम् / करे-हस्ते / 'बलिहस्तशिवः कराः' इत्यमरनानार्थः / दर्पणधारिणी-दर्पणं मुकुरं धरति धारयति वा तच्छीला तथा 'अजाते शीले' 5 / 1 / 15 / / इत्यनेन तच्छीले णिन्प्रत्ययः / काचिद्रूपवितेति शेषः / अतादृशाङ्गाप्तिदृशातादृशशरीरावयवसमागमदर्शनं विरहेण | कृशाशया-कृशो दुर्बल आशयोऽभिप्रायः, अभिलाष इतियावत् यस्याः सा तथा / यद्वा, कृशा चासौ आशा अभिलाषः कृशाशा तया तथेति / शयालुतायाम्निद्रालुतायाम् , स्वप्नवास्थायामपीति यावत् / निद्रया-स्वापेन / जहे-तत्यजे / क्षणमपि शान्तिं नापेतिभावः / / 126 // स्वयं विलेपाय च यक्षकर्दमः, करे तमालोक्य सुरूपया धृतः / स दुर्दमानन्यजदाहसाहसा-दुवाह दुःखादिव हव्यवाहताम् // 127 // अन्वयः—च, सुरूपया, तम् , आलोक्य, स्वयम् , विलेपाय, यक्षकर्दमः, करे, धृतः, सा दुर्दमान्यजदाहसाहसात् , दुःखात् , इव, हव्यवाहताम् , उवाह // 12 // वृत्तिः-च-पुनः / सुरूपया-सुष्ठु शोभनं रूपं सौन्दर्य्य यस्याः सा सुरूपा तया तथा, अतिशयसौन्दर्यशालिन्या कयाचित् प्रमदयेति शेषः / तम्-भगवन्तम् शान्तिनाथमित्यर्थः / आलोक्यवीक्ष्य, दृष्टवेति यावत् / स्वयम-आत्मना / विलेपाय-विलेपनाय / यक्षकर्दमः-यक्षप्रियः कर्दमो यक्षकदमः कपूरीगुरुकक्कोलकस्तूरीचन्दनद्रवमिश्र इति यावत् / “कपूर्रागुरुककोलकस्तूरीचन्दनद्रवैः / स्याद् यक्षकर्दमो मिरैः" 3 / 303 // इत्यभिधानचिन्तामणिः / धन्वन्तरिस्तु-“कुङ्कुमागुरुकस्तूरी कपूरचन्दनं तथा / महासुगन्धमित्युक्तं नामतो यक्षकर्दमः" इत्याह एवञ्च महासुगन्धद्रव इत्यर्थः / करे-हस्ते / धृता-स्थापितः / सः-हस्तसंस्थापितयक्षकदभः / दुर्दमानन्यजदाहसाहसात्-दुःखेन दमितुमाक्रमितुं योग्यो दुर्दमः न मनसोऽन्यस्माज्जायते इत्यनन्यजो मदनः, दुर्दमश्वासावनन्यजो दुर्दमानन्यजः तस्य दाहो ज्वाला तस्माद्वा दाहो दुर्दमानन्यजदाहः, सहसा प्रसह्य वर्तते इति साहसम् दुर्दमानन्यजदा हस्य साहसम् दुर्दमानन्यजदाहसाहसम तस्मात्तथा। "मदनो जराभीरुरनङ्गमन्मथौ कमनः कलाकेलि