________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [81 रनन्यजोऽङ्गजः" 2 // 141 / / इत्यभिधानचिन्तामणिः / दुःखात्-प्रतिकूलवेदनीयादात्मनो गुणविशेषाद / इव-यथा / हव्यवाहताम्-हव्यं वहतीति हव्यवाहोऽग्निस्तस्य भावो हव्यवाहता तान्तथा / उवाहप्राप, धारयामासेति यावत् // 127 // मनोभवन्मानवशेन मानवी,-नवीभवन्त्याऽप्यतदर्हताधिया / विहाय भैमीमपदर्पया कया, हताशयाऽवाङ्मुखताऽभ्यनायि नो // 128 // अन्वयः-मनोभवन्मानवशेन, मानवीनवीभवन्त्या, अपि, अतदई ताधिया, भैमीम् , विहाय, अपदर्पया, कया, अवाङ्मुखता, नो, अभ्यनायि // 128 // वृत्तिः-मनोभवन्मानवशेन-मनसि हृदये भवन उत्पद्यमानो मनोभवन स चासौ मानः प्रियापराधसूचकचेष्टाविशेषः मनोभवन्मानः तस्य वशम् आयत्तत्वं मनोभवन्मानवशम् तेन तथा / 'वशा वन्ध्यासुतायोषा-स्त्रीगवीकरिणीषु च / त्रिष्वायत्ते कीवमाय-तत्वे चेच्छाप्रभुत्वयोः' इतिमेदिनी / मानवीनवीभवन्या-मानवीषु नवीभवन्ती नूतनतामापाद्यमाना मानवीनवीभवन्ती तया तथा / अपि-सम्भावनायाम् / अतदर्हताधिया-तस्य भगवतः श्रीशान्तिनाथस्य अर्हा योग्या तदर्हा न तदा अतदर्हा तस्या भावोऽतदर्हता, तस्या धोबुद्धिरतदर्हताधीस्तया तथा / 'त्वते गुणः' 3 / 2 / 59 / इत्यनेन पुंवद्भावः / भैमीम्-भीमाव भयानकात् आगता भैमी भीतिस्तां तथा / वस्तुतस्तु 'परिणायितश्चानेकाः, सुरूपाः कुलबालिकाः / सकलान्तःपुरीसारा, जज्ञे तस्य यशोमती' 78 // इति श्रीमदाचार्याजितप्रभसूरिसन्डब्धे श्रीशान्तिनाथचरिते षष्ठप्रस्तावेऽष्टसप्ततितमे श्लोके संश्लोकिता भैमीव भैमी यशोमती तां तथा / 'काकतालीयादयः' 7 / 1 / 117 / इतिसूत्रे तुल्यार्थविषयकाकतालादिसमासपदत ईयप्रत्ययविधानसामर्थ्यात् प्रकृते भैमीव भैमीति समासपदमनवद्यमवसेयम् / विहाय-परित्यज्य / निर्भयं यथास्यात्तथेतिप्रथमपक्षेऽर्थोऽवसेयः / द्वितीयपक्षे तु स्पष्ट एवेति / अपदर्पया-अपगतो दर्पोऽहंकारो यस्याः साऽपदर्पा तया तथा / हताशया-हता भग्ना आशा मनोऽलाषो यस्याः सा हताशा तया तथा / कया-किमात्मिकया, प्रमदयेत्यर्थः / अवाङमुखता-शोकेन लज्जया वाऽधः नीचैरितियावत् मुखं वदनं यस्या साऽवाङ्मुखा तस्या भावोऽवाङ्मुखता मुखावनतिरितियावत् वाग्विमुक्तवदनत्वं वा। नो-नहि / 'अभावे त्वननो नहि' / 6 / 165 / ( इति अ० चि०) / अभ्यनायि-अभिनयमानीता। भैमी विहाय सर्वापि सुन्दर्यो हताशाऽधोमुखी सञ्जातेतिभावः / / 128 // . कृतेऽप्युपाये शतशोऽपशोकया, यदा बभूवे न कदाचिदेकया / तदा गृहीतव्यतिरेकशङ्कया, न दर्पणः श्वासमलीमसः कृतः॥१२९॥