________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे अन्वयः—यदा, शतशः, उपाये. कृते, अपि, एकया, ( अपि ) कदाचित् , अपशोकया, न, बभूवे, तदा, गृहीतव्यतिरेकशङ्कया, दर्पणः, श्वासमलीमसा, न, कृतः // 129 // वृत्तिः–यदा-यस्मिन् समये / शतश:-शतशब्दस्यानेकपरत्वात्, अनेकशः, बहुश इतियावत् / उपाये-कामव्यथाशामकप्रतीकारे। कृते-विहिते / अपि-सम्भावनायाम् / एकया-एकत्वसङ्ख्याविशिष्टया / ( अपि-सम्भावनायाम् / ) कदाचित-जातु / अपशोकया-अपगतः शोको दैन्यं खेद इतियावद्यस्याः साऽपशोका तया तथा, सोद्यमयेत्यर्थः / न-नहि / बभवे-समपादि / तदा-तस्मिन् काले / गृहीतव्यतिरेकशङ्कया-गृहीतमिति भावे क्तः, एवञ्च गृहीतस्य ग्रहणस्य व्यतिरेकोऽभावो गृहीतव्यतिरेकः ग्रहणाभावइत्यर्थः, तस्मात् शङ्का त्रासः, आतङ्क इतियावद, गृहीतव्यतिरेकशङ्का तया तथा, हेतुना / यद्वा गृहीतव्यतिरेकस्य ग्रहणाभावस्य शङ्का आशङ्का यस्याः सा गृहीतव्यतिरेकशङ्का तया तथा / 'भयं भीभीतिरातङ्क आशङ्का साध्वसं दरः' 2 / 215 / (इत्यभि० चिन्ता०)। कयेतिशेषः / दर्पण:- आदर्शः / 'दपणे मुकुरादौं' इत्यमरः / श्वासमलीमस:-मलो मालिन्यमस्त्यस्येति मलीमसः 'मलादीमसञ्च' 7 / 2 / 14 / इत्यनेन मत्वर्थे ईमसः प्रत्ययः, श्वासेन निःश्वासवायुना मलीमसः श्वासमलीमसः। न कृता-नहि विहितः / नमः काक्वर्थकत्वाव, अपि तु कृत एवेत्यर्थः // 128 // गच्छाधीश्वरहीरहीरविजया-म्नाये निकाये धियां, भृत्यः श्रीविजयप्रभाख्यसुगुरोः, श्रीमत्तपाख्ये गणे / शिष्यः प्राज्ञमणेः कृपादिविजयस्याशास्यमानाग्रणी, श्के वाचकनाममेघविजयः, शस्यां समस्यामिमाम् // 130 // अन्वयः-श्रीमत्तपाख्ये, गणे, धियाम् , निकाये, गच्छाधीश्वरहीरहीरविजयाम्नाये, श्रीविजयप्रभाख्यसुगुरोः, भृत्यः, प्राज्ञमणेः, कृपादिविजयस्य, आशास्यमानाग्रणीः, शिष्यः, वाचकनाममेघविजयः, शस्याम् , इमाम् , समस्याम्, चक्रे // 130 // वृत्तिः–श्रीमत्तपाख्ये-शोभासम्पत्समन्विते तपाभिधाने। गणे-गच्छे / धियाम-मतीनाम्। निकाये-समूहे, बुद्धिनिधावितियावत् / निकाय्ये इतिपाठप्रकल्पनं विशेषतः सङ्गतमाभाति, तदर्थस्तु निवासस्थानभूते, 'धाय्यापाय्यसान्नाय्यनिकाय्यमृङ्मानहविर्निवासे' 5 / 1 / 24 / इतिहेमसूत्रेण निकाय्यशब्दस्य निवासार्थे निपातनाद / गच्छाधीश्वरहीरहीरविजयाम्नाये-गच्छाधिपतिहीरकश्रीमद्धीरविजयसूरीश्वरसम्प्रदाये / श्रीविजयप्रभाख्यसुगुरो:-श्रीविजयप्रभसूरीश्वरोत्तमगुरुवर्यस्य / भृत्यः-किङ्करः।