________________ .-आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [83 एतेन समस्याकर्तुर्वाचकवरस्य तत्र निरतिशया भक्तिय॑ज्यते / प्राज्ञमणे:-पण्डितशिरोमणेः / कपादिविजयस्य-कृपेत्यादिर्यस्य स कृपादिः, विजयो यस्य नामनि तस्य तथा, कृपाविजयस्येत्यर्थः। आशास्यमानाग्रणी:-आशास्यमानानाम् आशंसाविषयाणामग्रणोः प्रथमस्तथा। शिष्यः-विनेयः / वाचकनाममेघविजयः-महामहोपाध्यायश्रीमेघविजयगणीश्वराभिधानः / शस्याम्-प्रशंसनीयाम् / इमाम्-पुरतः प्रत्यक्षतो दृश्यमानाम् / समस्याम्-समासाम् ‘समस्या तु समासार्था' इत्यमरः / पादपूर्तिरूपसमस्यामितियावत् / चक्र-विदधे / कृतवानितियावत् // 130 // इति-वाचकप्रवरश्रीमेघविजयजिद्गणीश्वरविरचिते श्रीनैषधीयमहाकाव्यप्रथमसर्गपादपूर्तिस्वरूपे श्रीशान्तिनाथचरित्रे शासनसम्राट्सुरिचक्रचक्रवर्तितपागच्छाधिपतिभट्टारकाचार्यमहाराजाधिराजश्रीविजयनेमिसूरीश्वरमहाराजपट्टालङ्कारशास्त्रविशारदकविरत्न-पीयूषपाणिपूज्यपादाचार्यमहाराजश्रीविजयामृतसूरीश्वरविरचित 'विद्वद्विनोदिनी' नामवृत्तिविभूषिते प्रथमः सर्गः समाप्तः।