________________ अथ द्वितीयः सर्गः यथोह्यमानः खलु भोगभोजिना, रथेन विष्णुः प्रभविष्णुतेजसा / तथाधिराजः स रराज राजभिः, समं व्रजन राजपथे यथेच्छया // 1 // अन्वयः-यथा, भोगभोजिना, प्रभविष्णुतेजसा, रथेन, उहथमानः, विष्णुः, रराज, तथा, ( प्रभविष्णुतेजसा, रथेन, उहयमानः ) सः, अधिराजा, राजभिः, समम् , यथेच्छया, राजपथे, व्रजन, ( राज) // 1 // वृत्तिः-यथा-येन प्रकारेण / भोगभोजिना-भोगं सर्पशरीरं भुङ्क्ते तच्छीलो भोगभोजी 'अजातेः शीले' 5 / 1 / 154 / इत्यनेन ताच्छील्ये णिन्प्रत्ययः तेन तथा, गरुडात्मकेनेत्यर्थः / 'अहेः शरीरं भोगः स्यात्' इत्यमरकोशः / प्रभविष्णुतेजसा-प्रभवति प्रकर्षण वर्तते तच्छीलं प्रभविष्णु, तादृशं तेजः प्रभावः प्रतापो वा यस्य स प्रभविष्णुतेजास्तेन तथा / रथेन-स्यन्दनेन / 'युद्धार्थे चक्रवद्याने, शताङ्गः स्यन्दनो रथः' 3 / 415 / ( इत्यभि० चि०) उद्यमानः-प्राप्यमाणः / विष्णुः-वेवेष्टि व्याप्तोति जगदिति विष्णुः, नारायणः। विष्णुर्नारायणः' इत्यमरः / रराज-दिदीपे, शुशुभ इति यावत् / तथातेन प्रकारेण / प्रभविष्णुतेजसा (पूर्वोक्तार्थेन ) रथेन उहयमानः / सः-प्रसिद्धः / अधिराज:-अधि अधिकः विशिष्ट इति यावत, राजाप्रकृतिरञ्जनशीलोऽधिराजः, भगवान श्रीमान् राजाधिराजः शान्तिनाथ इत्यर्थः / राजभिः-अनुयायिनरपतिभिः / समम्-सह / यथेच्छया-यथेप्सितम् / राजपथे-राज्ञा नृपाणां पन्था मार्गो राजपथस्तस्मिँतथा, राजमार्गे इत्यर्थः / 'ऋक्पूःपथ्यपोऽव' 7 / 3 / 76 // इत्यनेन अप्रत्ययः / व्रजन्-गच्छन् / (रराज-शुशुभे इति ) // 1 // दिशोऽपि तूर्यध्वनिनाभिगर्जयन्, प्रसह्य वैरोचनिजस्य पत्तनम् / यियासुरग्रेसरवाजिराजिभि - जंगाम चक्रानुगमाध्वनाऽधिपः // 2 // अन्वयः-तूर्यध्वनिना, दिशा, अपि, अभिगर्जयन् , वैरोचनिजस्य, पत्तनम् ; प्रसह्य, अग्रेसरवाजिराजिभिः, यियासुः, अधिपः, चक्रानुगमाऽध्वना, जगाम // 2 // वृत्तिः-तूर्यध्वनिना-तूर्यस्य वायभेदस्य ध्वनिः शब्दविशेषस्तेन तथा। दिश:-ककुभः,