________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [85 आशा इत्यर्थः / दिगन्तरालमितियावत् / अभिगर्जयन्-सर्वतोभावेन संशब्दयन्, समुद्घोषयन्निति यावत् / वैरोचनिजस्य-विशेषेण रोचते द्योतते विरोचः "अच्" 5 / 1149 इत्यनेन अच् प्रत्ययः, विरोच एव वैरोचः स्वार्थिकोऽण, सचासौ निजः स्वीय आत्मीय इति यावत्तस्य तथा, भीमस्य नृपतेरिति यावत् / यद्वा 'प्रसह्य वैरोच्चनिजस्य' इत्येकं पदं द्रष्टव्यम् / ततश्च-प्रसह्यं सहनयोग्यमल्पीय इति यावत् वैरं यस्य सचासावुच्चनिजः श्रेष्ठात्मीयस्तस्य तथा। राज्ञां स्वाभाविकं परस्परं यादृशेन वैरेण भाव्यमेव तावदेव वैरमासीन्न तावता श्रेष्ठत्वे आत्मीयत्वे च कापि क्षतिः / चकारैकाधिक्यस्य समस्यापूर्ती क्षत्यनाधायकत्वमवसेयम् / पत्तनम् नगरम् / कुण्डिनपुरमितियावत् / प्रसह्य-आग्रहेण / अग्रेसरवाजिराजिभिः-अग्रे-अग्रतः सरन्ति गच्छन्तीत्यग्रेसरास्ते च ते वाजिनोऽश्वा अग्रेसरवाजिनस्तेषां राजयः श्रेणयस्ताभिस्तथा / यियासुः-जिगमिषुः। अधिपः-भूपतिः, श्रीशान्तिनाथ इति यावत् / चक्रानुगमाध्वना-चक्रेण चक्ररत्नेन अनुगम्यतेऽनुस्रियते इति चक्रानुगमः सचासावध्वा मार्गश्चक्रानुगमाध्वा तेन तथा / जगाम-वत्राज // 22 // अथाजगामाभिमुखं स्वसीमनि, नृपोऽपि भीमः किल कुण्डिनेशिता / विदर्भजाया मदनस्तथा मनो-रथं प्रजायाः सह राजभिर्विदन // 3 // अन्वयः-अथ, कुण्डिनेशिता, भीमः, अपि, नृपः, विदर्भजायाः, प्रजायाः, मदनः ( सन् ) तथा, मनोरथम् , विदन् , राजभिः, सह, अभिमुखं, स्वसीमनि, आजगाम // 3 // __वृत्तिः-अथ-अनन्तरम् / कुण्डिनेशिता-कुण्डिननगरप्रभुः / भीमः-तदाख्यः, भयानक इतिव्यज्यते / अपि-सम्भावनायाम् / नृपः-राजा / विदर्भजाया:-विदर्भ-तदाख्यदेशे जाता विदर्भजा, तस्यास्तथा / प्रजाया:-जनस्य / “लोको जनः प्रजा" 3 / 154 / / इत्यभि० / मदन:-मदयति-तदभिलषितवस्तुप्रदानेन हर्षयतीति मदनः, हर्षोत्पादक इत्यर्थः / तथा-तेन प्रकारेण / मनोरथम्-मनसः चित्तस्य रथः स्यन्दनमिव मनोरथोऽभिलाषस्तन्तथा / प्रजाया इति शेषः / विदन्-जानन् / गजभिःसामन्तनरपतिभिः / सह-समम् / अभिमुखः-अभि- अभिगतं मुखं वदनं यस्य स तथा / स्वसीमनिस्वा स्त्रीया चासौ सीमा प्रान्तभूमिः स्वसीमा तस्यान्तथा / आजगाम-आगच्छत् / / 3 // गजाश्वशृङ्गारणया सतोरणं, पुरं समन्तादसम विभूषणैः / / असौ ससौख्यं लघुना महीभृता, नलावरुद्धं वयसैव वेशितः // 4 // * अन्वयः-असौ, गजाश्वश्रङ्गारणया, सतोरणम् , समन्तात् , विभूषणैः, असमम् , नलावरुद्धम् , ससौख्यम् , पुरम् , लघुना, महीभृता, वयसा, एव, वेशितः // 4 // ..