________________ 86 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे वृत्तिः-असौ-भगवान शान्तिनाथः / गजाश्वशृङ्गारणया-गजा हस्तिनश्च अश्वास्तुरङ्गमाश्च गजाश्वम् "प्राण्यङ्गत्वादेकवद्भावः" तस्य शृङ्गारणा मण्डनम् गजाश्वशृङ्गारणा तया तथा / "शृङ्गारः सुरते नाट्यरसे च गजमण्डने" इति मेदिनी। सतोरणम्-तोरणेन बहिरेण सहितम् सतोरणम्। “तोरणोऽस्त्री बहिरिम्" इत्यमरः ।समन्तात्-सर्वतः / विभूषणै-अलङ्कारैः / असमम्-न समतुल्यं यस्य तदसमम् / 'अनुत्तमम् इति यावत्' / नलावरुद्धम्-नलैर्धारायन्त्रैरवरुद्धम् व्याप्तम् , नलावरुद्धम ‘नलैःपद्मः, कमलैरिति' यावद, अवरुद्धं व्याप्तमिति नलावरुद्ध मिति वा / "नलो राज्ञि कपौ नडे पितृदेवे नलं तु स्यात् पझे" इत्यनेकार्थः। ससौख्यम्-सौख्येन निर्वृत्या सुखेनेति यावत् सहितम् ससौख्यम् , / पुरम्-नगरम् / लघुना-स्वल्पेन / महीभृता-महीं पृथिवीं बिभर्ति धारयतीति महीभृत् तेन तथा / वयसा-अवस्थया 'यौवनेनेत्यर्थः / एव- खलु / वेशितः-प्रवेशितः // 4 // पाठान्तरम् सदङ्गभृत् प्रत्ययितं पुरा तदा-दिवृद्धिकृत्-तद्धितवत्-सुसङ्गतम् / पदं स्वमीषलघुनाऽप्यसौ महा-नलावरुद्धं वयसैव वेशितः // 4 // अन्वयः-पुरा, सदङ्गभृत् प्रत्ययितम् , तदादिवृद्धिकृत्तद्धितवत्सुसङ्गतम् , महानलावरुद्धम् , अपि, स्वम् , पदम् , असो, लघुना, वयसा, एव, वेशितः // 4 // ___वृत्तिः-पुरा-पूर्वम् / सदङ्गभृत्प्रत्ययितम्-सत् समीचीनञ्च तदङ्गम् ‘तदाख्य देशः' सदङ्गम् तद्विभर्ति धारयतीति सदनभृत्, सचासौ प्रत्ययो हेतुः सदङ्गभृत्प्रत्ययः, स सञ्जातोऽस्येति सदङ्गभृत्यत्ययितम् / “प्रत्ययोऽधीनशपथ-ज्ञानविश्वासहेतुषु" इत्यमरः / स्थानपले इदम, पदसंज्ञापले च-सत्विद्यमानम् , अङ्गभृत्प्रत्ययितम् अङ्गभृत्प्रत्ययोऽङ्गसंज्ञाकारिप्रत्ययः सञ्जातोऽस्येति अङ्गभृत्प्रत्ययितम् , सञ्च तदङ्गभृत्प्रत्ययितं सदङ्गभृत्प्रत्ययितम् / उभयत्र पक्षेऽपि सदिति पृथक् पदं वा बोध्यम् / तदादिवृद्धिकृत्तद्धितवत्सुसङ्गतम्-वृद्धिमभ्युदयं कुर्वन्तीति वृद्धिकृतः, हितं कल्याणमस्त्येषामेषु वेति हितवन्तः, ते प्रसिद्धाश्च ते हितवन्ततद्धितवन्तः / तदादि-तदिनारभ्य वृद्धिकृतस्तदादिवृद्धिकृतः ते च ते तद्वितवन्तस्तदादिवृद्धिकृत्तद्धितवन्तस्तैः सुसङ्गतम् सुसमञ्जसम् , तदादिवृद्धिकृत्तद्धितवत्सुसङ्गतम् / पदसंज्ञा पक्षे च आदिवृद्धिकृत् तद्धितवत्, सुसङ्गतम्, तदिति च्छेदः / महानलावरुद्धम्-महान् विशालश्चासौ नलः पर्वतादिना विषमस्थानम् , महानलस्तेन अवरुद्धम्-वेष्टितम् , इति महानलावरुद्धम् / अत्र अलावरुद्धम् इतिच्छेदः लावश्छेदः रुद्धं रोधः लावश्व रुद्धश्च लावरुद्धे न लावरुद्धे यत्र तदलावरुद्धम् एतच्छेदपक्षे च 'महान्' इत्येतत् “असौ” इत्येतत्समानाधिकरणपदम् / अपि-सम्भावनायाम् / स्वम्-आत्मीयम् / पदम्-आस्पदम् , “स्थानमितियावत् / " "स्थानन्तु पदमास्पदम्" 4 / 54 // इत्यभिधानचिन्तामणिः / असौ-भगवान् राजाधिराजः श्रीमान् शान्तिनाथः / इषनघुना-किश्चिदल्पेन /