________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [87 वयसा-यौवनेन / “वयः पक्षिणि बाल्यादौ यौवने च नपुंसकम्” इति मेदिनी / एव-अवधारणार्थकमव्ययम् / वेशितः-प्रवेशितः / विभक्त्यन्तत्वपक्षे स्वमीषल्लघुना स्वम्प्रभृतीषदल्पेन प्रत्ययेण, बयसा युवापत्यप्रत्ययेन चेति द्रष्टव्यम् / इति // 4 // नृपेऽनुरूपे निजरूपसम्पदां, जिने प्रयाणाभिमुखे दिशां जये / पुरस्सरीभूय पुरन्दरः स्वयं, जयं चकारास्य परे पराजयम् // 5 // अन्वयः-निजरूपसम्पदाम् , अनुरूपे, नृपे, जिने, दिशाम् , जये, प्रयाणाभिमुखे, ( सति ) * पुरन्दरः, स्वयम् , पुरस्सरीभूय, अस्य, जयम् , परे, पराजयम् , चकार // 5 // वृत्तिः–निजरूपसम्पदाम्-रूपं सौन्दर्यश्च सम्पदः सम्पत्तयश्च रूपसम्पदः निजस्य आत्मनो रूपसम्पदो निजरूपसम्पदस्तासान्तथा / अनुरूपे-योग्ये / नृपे-राजनि / जिने-अर्हति, भगवति शान्तिनाथे इति यावत् / दिशाम-आशानाम् दिशानामिति यावत् / जये-विजये / दिग्विजयनिमित्तमित्यर्थः। प्रयाणाभिमुखे-प्रयाणाय प्रस्थानाय अभिमुखः सम्मुखः प्रयाणाभिमुखस्तस्मिंस्तथा / प्रस्थानतत्परे इति यावत् / (सति ) पुरन्दरः-पुराणि शत्रूणां दारयति पुरन्दर इन्द्रः / स्वयम्आत्मनैव / 'सर्व वाक्यं सावधारणं भवतीतिनियमात् / “स्वयमात्मना" इत्यमरः / पुरस्सरीभूयअग्रेसरीभूय / अस्य-भगवतो राजाधिराजस्य शान्तिनाथस्य / जयम्-विजयम् / (च-पुनः) परेशत्रौ / पराजयम्-भङ्गम् / पराभवमितियावत् / “भङ्गो जयविपर्यये” इति मेदिनी / चकारविदधे / कृतवानिति यावत् // 5 // .. नरेशवर्गः स्वयमेव ढौकनं, दिदेश तस्मिन् बहुशः श्रुतिंगते / स्वविक्रमादद्भुतचक्रचक्रमात् , पुरः पुरोऽभ्येयुषि तत् पदे पदे // 6 // अन्वयः-तत् , पुरः पुरः, पद, पदे, स्वविक्रमात् , अद्भुतचक्रचक्रमात् , अभ्येयुषि, तस्मिन, बहुशः, श्रुतिम् , गते, ( सति ) नरेशवर्गः, स्वयम् , एव, ढोकनम् , दिदेश // 6 // वृत्तिः-तत्-तस्माद्धेतोः / पुरःपुर:-अग्रतोऽप्रतः। पदे पदे-वीप्सायां द्विर्भावः, प्रतिपदम् , प्रतिस्थानमिति यावत् / स्वविक्रमात-स्वस्य आत्मनो विक्रमः पराक्रमः स्वविक्रमस्तस्मात्तथा / अद्भुतचक्रचक्रमात्-अद्भुतमाश्चर्यजनकञ्च तच्चक्रम् चक्ररत्नम् अद्भुतचक्रम् तस्य चक्रमः पुनः पुनर्भमणम्, अतिशयभ्रमणं वा अद्भुतचक्रचक्रमस्तस्मात्तथा / अभ्येयुषि-समायाते, प्राप्ते इति यावत् / तस्मिन्-भगवति शान्तिनाथे / बहुश:-अनेकशः / श्रुतिम्-श्रवणविषयताम् / गते