________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः ... / [ 79 रात्रिन्दिवम् तद्वशंवदा अहर्निशतद्वशंवदा / सतीति शेषः / मनोबलात-मनसोऽन्तःकरणस्य बलं साम य॑विशेषः मनोबलम् तस्मात्तथा / न-नहि / अमिलत-समगच्छत सङ्गतेति यावत् / अपि तु निखिलैव अबला तथासती मनोबलमासादयामास / च-पादपूरणे / “चान्वाचये समाहारेऽप्यन्योन्यार्थे समुच्चये / पक्षान्तरे तथा पादपूरणेऽप्यवधारणे" इति मेदिनी / तदात्मताध्यातधवा-तस्य शान्तिनाथस्य आत्मा स्वरूप यस्य स तदात्मा तस्य भावस्तदात्मता शान्तिनाथस्वरूपवत्त्वम् तया शान्तिनाथस्वरूपेण ध्यातो धवः प्रियो यया सा तदात्मताध्यातधवा एवम्भूता सती / का-किमात्मिका स्त्री। रते-सम्भोगे प्रियविशेषणत्वे वा अनुरक्ते / प्रिये-दयिते वल्लभे इति यावत् / आसनकर्मणा-आसनानां बन्धानां कर्म क्रिया आसनकर्म तेन तथा / प्रिया-वल्लभा / न-नहि / अभवत्-अजायत संवृत्तेति यावत् / अपि तु सर्वैव अभवदितिभावः // 124 / / श्रुतेऽथ दृष्टेऽपि पुरोऽङ्गनां यदा, स्मरस्ततापातिशयेन निष्कृपः / तदा तदासक्तधिया च का ह्यध-श्वकार वा न स्वमनोभवोद्भवम् // 125 // अन्वयः-अथ, यदा, श्रुते, दृष्टे, अपि, पुरः, अङ्गनाम् , स्मरः, निष्कृपः, (सन् ) अतिशयेन, तताप, तदा, च, तदासक्तधिया, स्वमनोभवोद्भवम् , नहि, अधश्चकार // 125 // वृत्तिः-अथ-अनन्तरम् / यदा-यस्मिन् समये / अते-आकर्णिते / दृष्टे-चाक्षुषप्रत्यक्षविषयीकृते, अवलोकिते इति यावत् / तस्मिन्-श्रीशान्तिनाथे इति शेषः / अपि-सम्भावनायाम् / पुर:-नगरस्य / अङ्गनाम्-प्रशस्तान्यङ्गानि अवयवसंस्थानविशेषाः सन्त्यस्या इति अङ्गना प्रमदा तान्तथा / “प्रमदा सुन्दरी रामा रमणी ललनाङ्गना" 3 / 169 // इत्यभिधानचिन्तामणिः / स्मरःकन्दर्पः / निष्कृपः-निर्गता कृपा दया कारुण्यमिति यावद्यस्मात् सः निष्कृपः कृपाशून्यः “अथ दया शूकः कारुण्यं करुणा घृणा / कृपाऽनुकम्पानुक्रोशः" 3 // 33 // इत्यभिधानचिन्तामणिः / ( सन् ) / अतिशयेन-नितान्तं यथा स्यात्तथा / तताप-अन्तर्भावितणिगर्थत्वात् सन्तापयामास / तदा-तस्मिन समये / च-पुनः / तदासक्तधिया-तस्मिन् भगवति शान्तिनाथे आसक्ता आसक्तिमापन्ना तदासक्ता सा चासौ धीस्तदासक्तधीस्तया तथा / स्वमनोभवोद्भवम्-मनसश्चित्ताद् भवतीति मनोभवः कामः स्वः स्वीयो मनोभवः स्वमनोभवस्तस्य उद्भव उत्पत्तिः स्वमनोभवोद्भवस्तन्तथा / नहि-न / अधश्चकारतिरश्वकार धिक्चकारेति यावत् / वा-पादपूरणे / अपि तु सर्वापि स्वमनोभवोद्भवमधश्चकारैवेत्यर्थः / “वा स्याद्विकल्पोपमयोर्वितर्के पादपूरणे" इति मेदिनी // 125 // श्रियाऽस्य योग्याऽहमिति स्वमीक्षितुं, मदार्पणात् दर्पणधारिणी करे। अतादृशाङ्गाप्तिदशा कृशाशया, शयालुतायामपि निद्रया जहे // 126 //