________________ -बाचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिम्यां प्रथमः सर्गः [77 वृत्तिः-(यदि-चेत् / ) सुरात्मक:-सुरो देवश्चासौ आत्मा सुरात्मा स एव सुरात्मकः स्वार्थे कः प्रत्ययः यद्वा अनुकम्प्यः सुरात्मा सुरात्मकः, अनुकम्पायां कः प्रत्ययः। भवस्य-संसारस्य / 'भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः” इति मेदिनी / अनुभवः-अनुभवतीत्यनुभवः, अनुभवी अनुभवकर्तेति यावत् / भवेत् स्यात् / तदा-तर्हि / तत-सुरजन्म सुरात्मकत्वमिति यावत् / वरम्मनाविप्रयम् / “देवाद् वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाप्रिये"। इत्यमरकोशः / तुषवत्-धान्यत्वग्वत अतितुच्छमितिभावः / मानुपम्-मनुष्यस्य मानवस्येदं मानुषम् मनुष्यजन्मेत्यर्थः / न-नहि / (वरम्मनाप्रियम् ) यत: यस्माद्धेतोः यस्मिन् सुरजन्मनि वा तस्प्रत्ययस्य सार्वविभक्तिकत्वस्वीकारात् / महीशस्य-मह्याः पृथिव्या ईशो महीशः भगवान् शान्तिनाथः तस्य तथा / यशस्यदर्शने-यशसि कीति साधु यशस्यम् शरीरमित्यर्थः तस्य दर्शनम्-अवलोकनम् साक्षात्कार इतियावत यशस्यदर्शनम् तस्मिंस्तथा / निमेषनिर्मित:-निमेषैर्नेत्रनिमीलनौनिर्मितो निमेषनिर्मितः निमेषप्रयोज्य इत्यर्थः / विघ्नलेश:-विघ्नस्य दर्शनप्रतिबन्धकीभूतान्तरायस्य लेशः कण: विघ्नलेशः / अपि-सम्भावनायाम् / “अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये” इति मेदिनी। न-नहि / सुरजन्मनि निमेषाभावस्य प्रसिद्धत्वादितिभावः // 12 // न का निशि स्वप्नगतं ददर्श तं, वशा रसात् तद्धृवभावनावशात् / न का पुनः सङ्गमनोन्मनस्तया. प्रपञ्चसञ्चारिकया सखीकृता // 122 // अन्वयः-सात् , तद्धृवभावनावशात् , का, वशा, निशि, तम् , स्वप्नगतम् , न, ददर्श, प्रपञ्चसञ्चारिकया, सङ्गमनोन्मनस्तया, पुनः. का, न, सखीकृता // 122 // - वृत्तिः–रसात-रागात् / अनुरागादितियावत् / “रसो गन्धरसे जले / शृङ्गारादौ विषे वोh तिक्तादौ द्रवरागयोः” इति मेदिनी। तद्धवभावनावशात-ध्रुवम्-निश्चिता चासौ भावना कामायुद्बोधितसंस्कारः ध्रुवभावना तस्मिन् श्रीमति शान्तिनाथे ध्रुवभाबना तद्धृवभावना विषयत्वं सप्तम्यर्थः, तद्विषयकध्रुवभावनेत्यर्थः, तस्या वशम् आयत्तत्वम् अधीनतेतियावत् तद्धृवभावनावशम् आयत्तत्वम् अधीनतेति यावत् तद्धृवभावनावशम् तस्मात्तथा / “ध्रुवः शङ्कौ हरे विष्णौ वटे चोत्तानपादजे / वसुयोगभिदोः पुंसि क्लीबं निश्चिततर्कयोः" "वशा वन्ध्यासुतायोषास्त्रीगवीकरिणीषु च / त्रिष्वायत्ते क्लीबमायत्तत्वे चेच्छाप्रभुत्वयोः' इत्युभयत्रापि मेदिनी। का-किमात्मिका / वशा-वनिता। निशि-रात्रौ / तम्-भगवन्तं श्रीशान्तिनाथम् / स्वप्नगतम्-स्वप्नप्राप्तम् / न-नहि / ददर्श-अदशत् / प्रपञ्चसञ्चारिकया-प्रपञ्चस्य सुखप्रपञ्चस्य-सुखसञ्चयस्य सुखविस्तारस्य वा सञ्चारिका दूतीव प्रपञ्चसञ्चारिका तया तथा 'प्रपश्चः सञ्चयेऽपि स्याद्विस्तारे च प्रतारणे' इति मेदिनी / सङ्गमनोन्म