________________ 76 ] श्रीजननंषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रवृत्तिः-रेणुभरे-रेणूना धूलीनां भरोऽतिशयो रेणुभरस्तास्मिंस्तथा / प्रसृत्वरे-प्रसरणशीले / सतीतिशेषः / नेत्रनिमीलनेषु-नेत्रयोर्नययोनिमीलनानि निमेषा नेत्रनिमीलनानि तेषु तथा / “निमेषस्तु निमीलनम्” 3 / 242 / / इत्यभिधानचिन्तामणिः / अपि-सम्भावनायाम् / वधूगणः-वधूनां सीमन्तिनीना गणः कदम्बकम् वधूगणः / वनितासमुदय इति यावत् / अमुम्-इमम् श्रीमन्तं शान्तिनाथभगवन्तम् / बलात्-हठाव, बलमाधायेति यावत् / चेतसि-अन्तःकरणे / न्यवेशयत्-सन्निवेशितवती / समस्थापयदिति यावत् / अयम्-एषः / अङ्गजः-अङ्गादेहाज्जातोऽङ्गजः कामः / निधिवत्-निधिम् निधानमहतीति निधिवत् / प्रियाशयात-हृद्याभिप्रायात् / “आशयः स्यादभिप्राये पनसाधारयोरपि” इति मेदिनी / एनत्-एतत् / रजः-पाशुम् / मा स्पृशन्-नहि स्पृशतु निन्दायां शता, "तो माझ्याक्रोशेषु" 5 / 2 / 21 // इत्यनेन // 119 // लभेत चेतः किल वैक्रियक्रियां, प्रियां वरं स्यात् समयेऽयमाशयः / अलम्भि माभिरमुष्य दर्शने, पुनः पुनः सङ्गमनेऽप्यसंशयः // 120 // अन्वयः-चेतः, प्रियाम् , वैक्रिय क्रियाम् , लभेत, किल, समये, अयम्, आशयः, वरम् , स्यात् , मांभिः, अमुष्य, दर्शने, पुनः, पुनः, सङ्गमने, अपि, असंशयः अलम्भि // 120 // वृत्तिः-चेत:-हृदयम् अन्तःकरणमिति यावत् / प्रियाम्-मनोरमाम् / वैक्रियक्रियाम्विक्रियाया विकारस्येयं वैक्रिया सा चासौ क्रिया वैक्रियक्रिया तान्तथा / लभेत–प्राप्नुयात् / किलसम्भावनायाम् / “वार्तासम्भाव्ययोः किल' इत्यमरकोशः / समये-काले, सत्यवसरे इति यावत् / अयम्-एषः / आशय:-अभिप्रायः / वरम्-मनाप्रियः / “देवाद् वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाप्रिये" इत्यमरकोशः / माभिः-मानवीभिः / अमुष्य-एतस्य भगवतः शान्तिनाथस्य / दर्शने-साक्षात्कारे / पुन: पुन:-भूयोभूयः / सङ्गमने-सम्मिलने / अपि-सम्भावनायामव्ययम् / असंशयः-संशयाभाव., सन्देहराहित्यमिति यावत् / अलम्मि-सम्प्रापि समधिगत इति यावत् // 120 // भवेद्भवस्यानुभवः सुरात्मक-स्तदा वरं तत्तुषवन्न मानुषम् / यतो महीशस्य यशस्यदर्शने, न विघ्नलेशोऽपि निमेषनिर्मितः // 12 // अन्वयः-( यदि ) सुरात्मका, भवस्य, अनुभवः, भवेत् , तदा, तत् , वरम् , तुषवत् , मानुषम् , न, यतः, महीशस्य, यशस्यदर्शने, निमेषनिर्मितः, विघ्नलेशः, अपि, न // 121 //