________________ .-आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [75 'अलुक् / यदा-यस्मिन् काले / मर्त्यलोकात् प्रतिनिवृत्य तत्रत्यान्यैः सह वार्तालापकाले इति यावत् / तदात्मभावम्-तस्य परमात्मन आत्मभावः स्वरूपं तदात्मभावस्तन्तथा / अवदन-अब्रुवन / तदातस्मिनकाले / (तत्रत्या अकृतप्रभुदर्शना दिविजाः ) अती-श्रवणे / पुनाना:-पवित्रयन्तः / च-पुनः। . नयने-नेत्रे / न-नहि / पुनाना इति शेषः / हि-निश्चयेन / हृदा-हृदयेन येन। आत्मनः-स्वान् / स्तुवन्ति स्म-प्रशंसयामासुः / प्रभुचरित्रश्रवणपवित्रीकृतश्रवणत्वादितिभावः। निन्दति स्म-अनिन्दिषुः / प्रभोरदर्शनादितिभावः / अत्र तेषामात्मप्रशंसने श्रवणपवित्रीकरणस्य, आत्मनिन्दने च नयनापवित्रीकरणस्य च हेतुतयाऽभिधानात् काव्यलिङ्गमलङ्कार इति // विलोकयन्तीभिरजनभावना-पुरस्सरं सर्वपदे स्मरोपमम् / न विस्मरत्वं समनीयत कचिद्, मनस्विनीभिढरागिचेतसा // 118 // अन्वयः-अजस्रभावनापुरस्सरम् , सर्वपदे, स्मरोपमम् , विलोकयन्तीभिः, मनस्विनीभिः, दृढरागिचेतसा, क्वचित् , विस्मरत्वम् , न, समनीयत // 118 // ____वृत्तिः-अजस्रभावनापुरस्सरम्-अजस्रं सततं भावना तद्विषयकचिन्तनम् अजस्रभावना, तेन पुरस्सरम् सहितम् अजस्रभावनापुरस्सरं यथा स्यात्तथा / सर्वपदे-सर्व निखिलं तत्पदं स्थानम सर्वपदं तस्मिँस्तथा / “स्थानं तु पदमास्पदम्” 454 // इत्यभिधानचिन्तामणिः। स्मरोपमम्-स्मरः कन्दर्प उपमा उपमानं यस्य स स्मरोपमस्तन्तथा / (तम्-श्रीमन्तं भगवन्तं शान्तिनाथमिति शेषः ) विलोकयन्तीभिः-सादरमालोकयन्तीभिः, पश्यन्तीभिरित्यर्थः / मनस्विनीभिः-प्रशस्तं मनोऽन्तःकरणमासामिति मनस्विन्यस्ताभिस्तथा / दृढरागिचेतसा-रागोऽनुरागोऽस्त्यस्येति रागि “अतोऽनेकस्वराव" 7 / 2 / 6 / / इत्यनेन मत्वर्थे इन् प्रत्ययः, दृढं बहुलश्च तद्रागि दृढरागि दृढरागि, च तच्चेतोऽन्तःकरणं दृढरागिचेतस्तेन तथा / कचित-कुत्रापि / विस्मरत्वम्-विगतः स्मरः कामो यतस्ता विस्मरास्तासां भावो विस्मरत्वं “त्वते गुणः” 3 / 2 / 59 // इत्यनेन पुंवद्भावः, कामाभाव इति यावत् / न-नहि / समनीयत-समानीतः // 11 // प्रसृत्वरे रेणुभरे वधूगणो, बलादमुं नेत्रनिमीलनेष्वपि / न्यवेश यच्चेतसि मा स्पृशन् रजो-ऽङ्गजोऽयमेनन्निधिवत् प्रियाशयात् // 119 ___ अन्वयः-रेणुभरे, प्रसृत्वरे, नेत्रनिमीलनेषु अपि वधूगणः, अमुम् , बलात् , चेतसि, न्यवेशयत् , अयम् , अङ्गजः, निधिवत् , प्रियाशयात् ; एनन् , रजः, मा, स्पृशन // 119 //