________________ 74 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे चेष्टात्मजन्मसु" इति मेदिनी / अपि-सम्भावनायाम् / श्रतिप्रशंसाम्-श्रूयते आभ्यामिति श्रुती को तयोः प्रशंसा श्रुतिप्रशंसा तान्तथा / शशंसुः-कथयामासुः / नु-वितर्के // 116 // निशम्य देवं वनपावनोद्यतं, प्रमोदते द्वैधफलस्पृशा दृशा / इति स्म चक्षुःश्रवसां प्रियाऽनले, स्मरस्वरूपे हृदयेऽधिदीपिते // 117 // अन्वयः-हृदये, स्मरस्वरूपे. अनले, अधिदीपिते ( सति ) चक्षुश्रवसाम् , प्रिया, देवम् , वनपावनोद्यतम् , निशम्य, वैधफलस्पृशा, दशा, प्रमोदते स्म, इति // 117 // वृत्तिः-हृदये-अन्तःकरणे चित्ते इति यावत् / “अन्तःकरणं मानसं मनः / हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले" 65 // इत्यभिधानचिन्तामणिः / हृदयावच्छेदेनेत्यर्थः सप्तम्या अवच्छिनत्वार्थत्वात् / स्मरस्वरूपे-स्मरः कामः स्वरूपमाकारो यस्य स स्मरस्वरूपस्तस्मिस्तथा / कामात्मक इति यावत् / अनले अग्नौ / अघिदीपिते-समुज्जवलिते / (सति ) चक्षुःश्रवसाम्-नागानाम् / सर्पाणामिति यावत् / “सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्मुजङ्गमः / कुण्डली गूढपाञ्चक्षुःश्रवाः काकोदरः फणी / इत्यमरकोशः / प्रिया-प्रेयसी, रमणीतियावत् / देवम्-देवाधिदेवं भगवन्तं शान्तिनाथम् / वनपावनोद्यतम्-वनपावनाय काननपूत्यै उद्यतः प्रयतस्तत्पर इति यावत् वनपावनोद्यतस्तन्तथा / निशम्य-आकर्ण्य श्रुत्वेति यावत् / द्वैधफलस्पृशा-श्रवणदर्शनात्मकद्विविधलाभवत्या / दृशा-लोचनेन / जात्यैकवचनमनुसन्धेयम् / प्रमोदते स्म-दृप्यति स्म / प्रमोदतेति यावत् / इति-अवधारणेऽव्ययम् // 116 // 1 [निरीक्ष्य रूपं परमं परात्मन-स्तदात्मभावं दिविजा यदाऽवदन् / भुती पुनाना नयने न च स्म हि, स्तुवन्ति निन्दन्ति हृदां तदात्मनः // 1 // ] अन्वयः-परात्मनः, परमम् , रूपम् निरीक्ष्य, दिविजाः, यदा, तदात्मभावम् , अवदन् , तदा ( तत्रत्याः ) श्रुती, पुनानाः, च, नयने, न ( पुनाना: ) हि, हृदा, आत्मनः, स्तुवन्ति, स्म, निन्दन्ति, स्म // वृत्तिः-परात्मनः-पर उत्कृष्टश्चासावात्मा परात्मा, श्रीशान्तिनाथस्तस्य तथा / 'सन्महत्परमोत्तमोत्कृष्टं पूजायाम्' / 3 / 1 / 107 / इत्यनेन समासः / परमम्-परा मा लक्ष्मीर्यस्मिंस्तत्तथा / रूपम्स्वरूपम् , सौन्दर्यमितियावत् / निरीक्ष्य-समवलोक्य / दिविजाः-दिवि स्वर्गे जाता दिविजाः, 'सप्तम्याः' 5 / 1 / 169 / / इत्यनेन जन्धातोर्डप्रत्ययः, 'थुप्रावृड्वर्षाशरदकालाव' 3 / 2 / 27 // इत्यनेन सप्तम्या 1. स्तुवन्तीत्यादितुर्यपादस्य पूर्तिरूपं सूक्तं नोपलब्धं तथा च तत् सम्पूर्यात्र निवेशितं वर्तते। .