________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [73 तत्पुरस्सरा रमाः समा दिग्वलयात् समागमन्" इत्येवं पूर्वोक्तश्लोकबोधितदिक्कुमारीणां मर्त्यलोके समागमनकाले इति यावत् / ईक्षितैः-अवलोकनैः, भगवतः श्रीमच्छान्तिनाथस्येतिशेषः / दृशो:पश्यति दृश्यते वाऽनयेति दृक् दृष्टिर्नयनमितियावत् तयोस्तथा। "चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् / लोचनं दर्शनं दृक् च" 3 / 239 / / इत्यभिधानचिन्तामणिः / (द्वयम्-युगलम् ) फलाढ्यजीवितम्फलेन-श्रवणावलोकनात्मकेन आढ्यं भाग्यवत्त्वाद्यन्वितं जीवितं जीवनं यस्य तत्तथा सफलजीवितमित्यर्थः / ( परन्तु-सतोरपि श्रवणावलोकनयोः) त्वगिन्द्रियम्-स्पर्शनेन्द्रियम् / वियुक्तितः सम्भोगागभावजनितवियोगात् / तप्यति-सन्तापमनुभवति / एवम्-अनेन प्रकारेण / भुजगाङ्गनाः-प्रशस्तान्यङ्गानि सन्त्यासामित्यङ्गनाः भुजगानां नागानामङ्गना भुजगाङ्गनाः / निजम्-आत्मीयम् / ततवियोगात् सन्तप्यमानं त्वगिन्द्रियम् / निनिन्दुः-निन्दयामासतुः, निर्भत्सयाश्चक्रुरिति यावत् / / 115 / / पुरान्तरस्थायिमृगेक्षणास्तदा, दृशोर्द्वयं नस्तदवीक्षिचापलम् / श्रुतिप्रशंसां नु शशंसुराशयात् , शयालुभावेऽपि हितालिशालिनि / / 116 // ___ अन्वयः–तदा, पुरान्तरस्थायिमृगेक्षणाः, हितालिशालिनि, नः, तदवीक्षि, दृशोः, द्वयम् , अफलम् , प (इति ) आशयात् , हितालिशालिनि, शयालुभावे, अपि श्रुतिप्रशंसाम् , शशं पुः, नु // 116 // .. वृत्तिः-तदा-तस्मिन् समये / पुरान्तरस्यायिमृगेक्षणाः-मृगस्य हरिणस्य ईक्षणे नयने मृगेक्षणे, मृगेक्षणे इव ईक्षणे नयने यासान्ता मृगेक्षणाः / “उष्ट्रमुखादयः" इत्यनेन बहुव्रीहिसमासः, एकस्येक्षणपदस्य लोपश्च / अन्यत् अपरम् पुरम्-नगरम् पुरान्तरम् पुरान्तरे तिष्ठन्ति तच्छीलमस्त्यासामिति पुरान्तरस्थायिन्यः ताश्च ता मृगेक्षणाः पुरान्तरस्थायिमृगेक्षणाः / पुरान्तरमित्यत्र मयूरव्यंसकादित्वात् समासोऽवसेयः। न:-अस्माकम् / तदवीक्षि-न तम्–श्रीमन्तं शान्तिनाथं वीक्षितुं शीलमस्येति तदवीक्षि "अजातेः शीले" 5 / 1 / 154 / / इत्यनेन ताच्छील्ये णिन् प्रत्ययः, अश्राद्धभोजीत्यादिवत् प्रक्रियाऽवसेया / श्रीमच्छान्तिनाथानवलोकनशीलमिति यावत् / दृशोः पश्यति दृश्यते वाऽऽभ्यामिति दृशौ नयने तयोस्तथा / “चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् / लोचनं दर्शनं दृक् च 3 / 239 / / इत्यभिधानचिन्तामणिः / द्वयम्-द्वाववयवावस्येति द्वयम्-द्वितयम् / अफलम्-न फलं लाभः प्रयोजन वा यतस्तदफलम् “फलं जातिफले शस्ये हेतूत्त्थे व्युष्टिलाभयोः" इति मेदिनी। च-पादपूरणे / “चान्वाचये समाहारेऽप्यन्योन्यार्थे समुच्चये / पक्षान्तरे तथा पादपूरणेऽप्यवधारणे” इति मेदिनी / ( इति ) आशयात-अभिप्रायात् / “आशयः स्यादभिप्राये पनसाधारयोरपि” इति मेदिनी। हितालिशालिनिहिताः हितकारिकाश्च ता आलयः सख्यो हितालयस्तेन शालते शोभते तच्छीलो हितालिशाली तस्मिस्तथा / शयालुभावे-शयालोनिद्रालो वश्चेष्टा शयालुभावस्तस्मिंस्तथा। "भावः सत्तास्वभावाभिप्राय