________________ 72 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे श्रमम्-परिश्रमम् आयासमितियावत् / न-नहि / गताः-प्राप्ताः / ता:-प्रसिद्धाः / अमूः-विप्रकृष्टतया लक्ष्यमाणा देवाङ्गनाः / अभ्यासभरम्-अभ्यासस्य भरोऽतिशयोऽभ्यासभरस्तन्तथा / विवृण्वतेप्रकटयन्ति // 113 // वशी जिनोऽपि स्ववशीभवेदयं, चलेक्षणत्वादितिधीरिवोर्वशी / निनिन्द चित्ते स्वसुरावतारतां, निमेषनिःस्वैरधुनाऽपि लोचनैः // 114 // अन्वयः–वशी, अपि, अयम् , जिनः, चलेक्षणत्वात् , स्ववशीभवेत् , इतिधीः, इव, उर्वशी, निमेषनि:स्वैः, लोचनैः, अधुना, अपि, चित्ते, स्वसुरावतारताम्, निनिन्द // 114 // .... वृत्तिः-वशी-स्वाधीनः, जितेन्द्रियचय इतियावत् / अपि-सम्भावनायामव्ययम् / “अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये" इति मेदिनी / अयम्-सन्निकृष्टतया दृश्यमानः / “इदमस्तु सन्निकृष्टे समीपतरवर्ति चैतदो रूपम्" इत्याद्यभियुक्तोक्तेः / जिनः-जयति रागद्वेषमोहानिति जिनोऽहन भगवान् शान्तिनाथ इत्यर्थः / चलेक्षणत्वात्-चले चञ्चले ईक्षणे नयने यस्याः सा चलेक्षणा तस्या भावश्चलेनणत्वं तस्मात्तथा / “त्व-ते गुणः / 32 / 59 / / इत्यनेन पुंवद्भावः / स्ववशीभवेत्-निजाधीनीभवेत् / इतिधी:-इति इत्येवंप्रकारा धीबुद्धिर्यस्याः सा इतिधीः / इव-यथा / उर्वशी-तदाख्याप्सरोविशेषः / निमेषनिःस्वैः-निमीलनदरिद्रैः / लोचनैः-नयनैः / अधुना-साम्प्रतम् / अपि-खलु / चित्ते-हृदये / स्वसुरावतारताम्-स्वस्य आत्मनः सुरावतारः सुरजन्म स्वसुरावतारस्तस्य भावः स्वसुरावतारता तान्तथा। निनिन्द-चिक्षेप निन्दयामासेति यावत् // 114 // अदस्तदाकर्णि फलाब्यजीवितं द्वयं श्रुतेः साम्प्रतमीक्षितैर्देशोः / वियुक्तितस्तप्यति तत्त्वगिन्द्रियं, निनिन्दुरेवं भुजगाङ्गना निजम् // 115 // अन्वयः-अदः (नः ) तदाकर्णि, श्रुतेः, द्वयम् , ( च ) साम्प्रतम् , ईक्षितैः, दृशोः ( इयम् ) फलाढ्यजीवितम् , त्वगिन्द्रियम् , वियुक्तितः, तप्यति,एवम् , भुजगाङ्गनाः, निजम् , तत् , निनिन्दु॥११५॥ वृत्तिः-अंदः-एतत् , किञ्चिद्विप्रकृष्टतया दृश्यमानम् / नः-अस्माकम् / नदाकर्णि-तं भगवन्तं श्रीमन्तं शान्तिनाथमाकर्णयति शृणोतीत्येवंशीलन्तथा “अजातेः शीले” 5 / 1 / 154 // इत्यनेन ताच्छील्ये णिन्प्रत्ययः / सदितिशेषः / श्रुतेः-श्रूयते आकर्ण्यतेऽनयेतिश्रुतिः श्रवणम् कर्ण इति यावत् तस्यास्तथा / द्वयम्-द्वाववयवावस्येति द्वयम् द्वितयम् युगलमिति यावत् / "श्रुतौ श्रवः ।.....'कर्णः श्रोत्रः श्रवणश्च" 32237 / इत्यभिधानचिन्तामणिः / ( च-पुनः ) साम्प्रतम्-अधुना / "पुरस्सरागा इव