________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [ 71 निर्जरदेवतर्भुबहिर्मुखानिमिषदैवतनाकिलेखाः / वृन्दारकाः सुमनसस्त्रिदशा अमर्त्यः" 2 / 2 // इत्यभिधानचिन्तामणिः / अनन्यसाधारणरूपसम्पदम्-अन्यस्य परस्य द्वितीयस्येति यावद साधारणं समानमन्यसाधारणम् तन्न भवतीत्यनन्यसाधारणम् तच्च तद्रूपं सौन्दर्य्यमनन्यसाधारणरूपम् तत् सम्पत् सम्पत्तियस्य सोऽनन्यसाधारणरूपसम्पत् तन्तथा / “रूपं स्वभावे सौन्दर्ये नामगे पशुशब्दयोः / ग्रन्थावृत्ती नाटकादावाकारश्लोकयोरपि" इति मेदिनी / तम्-प्रसिद्धं भगवन्तं शान्तिनाथमित्यर्थः / निपीयसादरमवलोक्य / यः-यादृशः मनोऽनुरागः / अर्जितः-उपार्जितः, समधिगत इतियावत् / सःअनन्यसाधारणरूपसम्पदं शान्तिनाथं सादरमवलोक्य त्रिदशीभिः समुपार्जितः / मनोऽनुरागःमनसश्चित्तस्य अनुरागः स्नेहः सात्त्विकभाव इति यावद मनोऽनुरागः। फलेग्रहीभवन-फलानि प्रयोजनानि गृह्णातीति फलेपहिः “रजःफलेमलाद् ग्रहः" 5 / 1 / 58 / / इत्यनेन इ. प्रत्ययः, फलेपहिः भवन सम्पद्यमानः फलेपहीभवन् / अभूततद्भावेऽर्थे विप्रत्ययः विप्रत्यये परे पूर्वस्वरस्य दीर्घता च / भुवि-पृथिव्याम् मर्त्यलोकस्वर्गादिस्थानमात्रे वा / “भूः स्थानमात्रे कथिता धरण्यामपि योषिति" इति मेदिनी / चातुरधुरि-चतुरस्य दक्षिणस्य निपुणस्येति यावत् भावश्चातुरम् चातुर्यमित्यर्थस्तस्य धूश्चातुरघूस्तस्मिँस्तथा / समासान्तविधेरनित्यत्वादसमासान्तस्य अत्प्रत्यययस्याभावः / स्थितिम्-अवस्थानम् / अदीधरत्-धारयामास // 112 // पुरावतारादिदिने सुराङ्गना, वतेरुरर्हत्परमोत्सवे नवे / अमूस्तदभ्यासभरं विवृण्वते-निमेषभावेऽपि न ताः श्रमं गताः // 113 // अन्वयः-पुरा,-अवतारादिदिने, नवे, अर्हत्परमोत्सवे, सुराङ्गनाः, वतेरुः, तत् , अनिमेषभावे, अपि, श्रमम्., न, गताः, ताः, अमः, अभ्यासभरम् , विवृण्वते // 113 // वृत्तिः-पुरा-प्राचीनकाले पूर्वस्मिन् समये इतियावत् / अवतारादिदिने-अवतारः-धर्मसंस्थापनाद्यर्थमवतरणम् भूलोके जन्मग्रहणमिति यावत् आदिमुख्यो यस्मिंस्तदवतारादि तच्च तद्दिनं दिवसोऽवतारादिदिनन्तस्मिँस्तथा / नवे-नूतने, अभिनवे इतियावत् / अर्हत्परमोत्सवे-परम उत्कृष्टश्वासावुत्सव उद्धवः परमोत्सवः “सन्महत्परमोत्तमोत्कृष्टं पूजायाम्" 3 / 1 / 107 / / इत्यनेन समासः, अर्हतो जिनेश्वरस्य परमोत्सवोऽहत्परमोत्सवस्तस्मिँस्तथेति / सुराङ्गनाः-प्रशस्तान्यङ्गानि गात्राणि सन्त्यासामित्यङ्गनाः, सुराणां देवानामङ्गनाः प्रमदाः सुराङ्गनाः / वतेरु:-अवतेरुः, अवतीर्णा इति यावत् / "वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इति भागुरिमते अवोपसर्गाद्यावयवीभूतस्याऽकारस्य लोपः / तत्-तस्माद्धेतोः / अनिमेषभावे-न निमेषो निमीलनं यासान्ता अनिमेषास्तासां भावोऽनिमेषभावस्तस्मिँस्तथा / “निमेषस्तु निमीलनम्" 31242 // इत्यभिधानचिन्तामणिः / अपि-सम्भावनायामव्ययम् /