SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 7. ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे निमीलनभ्रंशजुषा दृशा भृशं, सुरीगणे पश्यति सङ्गताङ्गना / पृथक् समालक्ष्यत तत्क्षणे चलैः, कटाक्षमोक्षेरतिशोणिताञ्चलः // 111 // अन्वयः-सुरीगणे, निमीलनभ्रंशजुषा, दृशा, भृशम् , ( तम् , ) पश्यति, सङ्गता; अङ्गना, तत्क्षणे, अतिशोणिताञ्चल, चलैः, कटाक्षमोक्ष, पृथक् , समालक्ष्यत // 111 // वृत्तिः-सुरीगणे-सुरीणां देवरमणीनां गणः समुदयः सुरीगणस्तस्मिँतथा / 'कूट मण्डलचक्रवाकपटलास्तोमा गणः पेटक, वृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः' / 647 // इति (अभि० चि०) / निमीलनभ्रशजुषा-निमीलनस्य निमेषस्य भ्रंशो ध्वंसो निमीलनभ्रंशस्तं जुषति सेवते इति निमीलनभ्रंशजुट् तया तथा, निर्निमेषया निमेषरहितयेति यावत् / “निमेषस्तु निमीलनम्" 3 / 242 / / इत्यभिधानचिन्तामणिः / दृशा-पश्यति दृश्यते वाऽनयेति दृक् दृष्टिलॊचनमितियावत् तया तथा / “चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् / लोचनं दर्शनं दृक् च" 3 / 139 / / इत्यभिधानचिन्तामणिः भृशम्-अतिशयं यथास्यात्तथा / तम्-मानिनीमानभञ्जनसन्नाहशालिनं भगवन्तं श्रीमन्तं शान्तिनाथम् / पश्यति-सादरमवलोकयति / सतीतिशेषः / सङ्गता-सम्मिलिता एकत्रीभूतेतियावत् / अङ्गनाप्रशस्तान्यङ्गान्यस्याः सन्तीति अङ्गना, नितम्बिनी प्रमदेतियावत् “नोऽङ्गादेः" 7 / 2 / 29 // इत्यनेन मत्वर्थीयो नः प्रत्ययः / “विशेषास्तु कान्ता भीरूनितम्बिनी / प्रमदा सुन्दरी रामा रमणी ललनाङ्गनां" 3 / 169 / / इत्यभिधानचिन्तामणिः / तत्क्षणे-स चासौ क्षणः सूक्ष्मकालविशेषः तत्क्षणस्तस्मिस्तथा / अतिशोणिताश्चलैः-शोणितं रक्तमतिक्रान्तोऽतिशोणितः "प्रात्यवपरिनिरादयः" 3 // 1 // 47 // इत्यनेन समासः, अतिशोणितः अश्चलः प्रान्तभागो येषान्तेऽतिशोणिताञ्चलास्तैस्तथा / चल-चश्चलैः / “अथ चञ्चलम् / चटुलं चपलं लोलं चलं पारिसवास्थिरे" 691 // इत्यभिधानचिन्तामणिः / कटाक्षमोक्ष:-कटस्य कपोलस्याऽक्षि कटाक्षः “संकटाभ्याम्" 7 / 3 / 86 / / इत्यनेन अत्प्रत्ययः समासान्तः तस्य मोक्षाः पाताः कटाक्षमोक्षास्तैस्तथा / पृथक्-भिन्नाः। समालक्ष्यत-संलक्ष्यते स्म, संलक्षितेति यावद // 111 / / अनन्यसाधारणरूपसम्पद, निपीय तं यस्त्रिदशीभिरर्जितः / मनोऽनुरागः स फलेग्रहीभवन, भुवि स्थिति चातुरधुर्य्यदीधरत् // 112 // ____ अन्वयः–त्रिदशीमिः, अनन्यसाधारणरूपसम्पदम् , तम् , निपीय, यः, अर्जितः, सः, मनोऽनुरागः, फलेग्रहीभवन् , भुवि, चातुरधुरि, स्थितिम् , अदीधरत् // 112 // / वृत्तिः–त्रिदशीभिः-तिस्रो दशा वयोऽवस्था येषान्ते त्रिदशाः देवाः / त्रिंशद्वर्षा मनुष्ययुवानः त्रिदशा इव त्रिदशा इति वा तेषां स्त्रियस्त्रिदश्यो देवाङ्गनास्ताभिस्तथेति / “देवाः सुपर्वसुर
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy