________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः समस्ता इति यावत् / तत्पुरस्सराः-पुरोऽग्रे सरन्तीति पुरस्सराः, अग्रगामिनी, सा (ताः) पुरस्सरा यासान्तान्तत्पुरस्सराः / भुवनत्रयजातवस्तुलक्ष्मीप्रमुखा इति यावत् / पुरः-अग्रे पुरतः इति यावत् "पुरः पुरस्तात् पुरतोऽग्रतः” 6 / 168 / / इत्यभिधानचिन्तामणिः / राज्ञ इति शेषः / समागमन्-समागच्छन् , समागता इतियावत् / विषमायुधाश्रये-विषमं पश्चात्मकमायुधमस्त्रविशेषो यस्य स विषमायुधः कामः तस्य आश्रयः ललनाचित्ते तदुत्पादकतया जनकः विषमायुधाश्रयस्तस्मिँस्तथा / मनोरमाङ्गमनोरमं मनोहरं रमणीयमितियावत् अङ्ग शरीरन्तदवयवविशेषो वा यस्य स मनोरमाङ्गस्तस्मिंस्तथा / अङ्ग गात्रं प्रतीकोपाययोः पुम्भूम्नि नीवृत्ति” इति मेदिनी। तत्र-तस्मिन् प्रसिद्धे भगवति शान्तिनाथ इतियावत् / नृपे-राजनि / द्विधा-द्वाभ्यां प्रकाराभ्याम् / तासां विलासिनीनां रतिः-अनुरागः प्रकटी बभूवेतिपूर्वश्लोकाद सम्बन्धः // 109 // अनङ्गभावादनिमेषदर्शना-दयं कलाकेलिमयाशयं भजन / द्विधाऽप्यतस्तत्समये रसाश्रये, नतध्रुवां मन्मथविभ्रमोऽभवत् // 110 // ____ अन्वयः-कलाकेलिमयाशयम् , भजन , अयम् , रसाश्रये, सत्समये,अनङ्गभावात्, अनिमेषदर्शनात् , द्विधा, अपि, नतभ्रुवाम् , मन्मथविभ्रमः, अभवत् // 110 // वृत्तिः-कलाकेलिमयाशयम्-कलानां चतुषष्टिकलानां केलिः कलाकेलिः सा प्रचुराऽस्मिन्निति कलाकेलिमयः प्राचुर्य्यार्थो मयट् “अन्नमयो यज्ञः” इत्यादिवत्, कलाकेलिमयश्चासावाशयोऽभिप्रायः कलाकेलिमयाशयस्तन्तथा / "आशयः स्यादभिप्राये पनसाधारयोरपि" इति मेदिनी / भजन-सेवमानः / आश्रयन्नितियावत् / अयम्-राजचक्रचक्रवर्ती वैश्वसेनिर्भगवान शान्तिनाथः / रसाश्रये-रसस्यानुरागस्य समुद्दीपकतया आश्रय आधारो रसाश्रयस्तस्मिँस्तथा / तत्समये-स प्रसिद्धश्चासौ समयः कालो वसन्तादिस्तत्समयस्तस्मिंस्तथा / रतिसमुत्पादकवसन्तादिकाले इत्यर्थः / अनङ्गभावात्-न अङ्ग शरीरं (शिवेन भस्मीकृतत्वात् ) यस्य सोऽनङ्गः कामस्तस्य भावो भावना अनङ्गभावस्तस्मात्तथा कामदेवसमशोभाकत्वेन हेतुना कामभावनात इत्यर्थः / अनिमेषदर्शनात्-न निमेषो निमीलनं यस्मिन् कर्मणि तदनिमेषम् अनिमेषश्च तद्दर्शनमनिमेषदर्शनन्तस्मात्तथा / द्विधा-द्विप्रकारः / अपि-खलु / नतभ्रवाम्नते नम्ने भ्रवौ नेत्रोपरिविराजमानरोमपद्धती यासान्ता नतभ्रवस्तासान्तथा, विलासनीनां रमणीनामिति यावत् / “भ्रूरूचे रोमपद्धतिः" 3 / 243 / / इत्यभिधानचिन्तामणिः / मन्मथविभ्रमः-मन्मथस्य मदनस्य विभ्रमः-विशिष्टो भ्रमः, विलासश्च यस्मात् यस्मिन् वा स मन्मथविभ्रमः / अभृत्-अभवत् / अयं जिनो विलासिनीनां मन्मथभ्रमजनकस्तत्सम्बन्धिहावभावादिनानाविधविलासजनकश्चाभूदिति भावः / / 11 / /