________________ 68 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे वृत्तिः-अनिमेषेण-निमेषो निमीलनम् न निमेषोऽनिमेषः, निमेषाभाव इत्यर्थस्तेन तथा / "निमेषस्तु निमीलनम्" 3242 // इत्यभिधानचिन्तामणिः / दृशा-पश्यति दृश्यते वाऽनयेति दृक् लोचनं नयनमिति यावत् तया तथा / “चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् / लोचनं दर्शनं दक् च" 3 / 239 // इत्यभिधानचिन्तामणिः / पदास्पृशा-पदं स्थानं न स्पृशतीति पदास्पृक् तेन तथा / पदा-चरणेन / 'स्थानं तु पदमास्पदम्' 4154 // इत्यभिधानचिन्तामणिः / “पदघ्रिचरणोऽस्त्रियाम्" इत्यमरकोशः / च-पुनः / निजस्य-आत्मीयस्य “निजः पुनः आत्मीयः स्वः स्वकीयश्च" 3 / 226 / / इत्यभिधानचिन्तामणिः / चित्तस्य-चेतसः, हृदयस्य, अन्तःकरणस्येति यावत् / “अन्तःकरणं मानस मनः / हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले" 6 / 5 / / इत्यभिधानचिन्तामणिः / तम्-प्रसिद्ध भगवन्तं श्रीमच्छान्तिनाथम् / प्रति-लक्ष्यीकृत्य / इच्छया-अभिलाषेण / विलासनीनाम्-विलासो विभ्रमोऽस्त्यासामिति विलासिन्यस्तासान्तथा "अतोऽनेकस्वराद” 7.2 / 6 // इत्यनेन मत्वर्थे इन्प्रत्ययः यद्वा विलसन्ति विच्छित्त्या शोभन्ते तच्छीलमासामिति विलासिन्यस्तासान्तथा "अजातेः शीले" 5 / 1154 // इत्यनेन ताच्छील्ये णिन्प्रत्ययः / विलासवतीनां रमणीनामिति यावत् / हृदये-मानसे चेतसीति यावत् / अद्भतरूपसम्पदा-अद्भुतमाश्चर्यजनकञ्च तद्रूपं सौन्दर्यमद्भुतरूपम् तदेव संपद संपत्तिरद्धृतरूपसंपत् तया तथा / करणेन / स्वतः-स्वयमेव अप्रेरितैवेति यावत् / रतिः-रागः अनुराग इति यावत् / “रतिः स्त्री स्मरदारेषु रागे सुरतगुह्ययोः" इति मेदिनी / स्फुटीबभूव-अस्फुटा स्फुटा बभूव सम्पन्ना स्फुटीबभूव / अभूततद्भावेऽर्थे च्चिप्रत्ययः // 10 // पुरस्सरागा इव तत्पुरस्सरा, रमाः समा दिग्वलयात् समागमन् / द्विधा नृपे तत्र जगत्त्रयोभुवां, मनोरमाणे विषमायुधाश्रये // 109 // अन्वयः-जगत्त्रयीमुवाम् , रमाः, इव, सरागाः, समाः, तत्पुरस्सराः, दिग्वलयात् , पुरः, समागमन् , विषमायुधाश्रये, मनोरमाङ्ग, तत्र, नृपे, द्विधा, ( सासां रतिः स्फुटीबभूवेति पूर्वश्लोकेन सम्बन्धः ) // 109 // वृत्तिः-जगत्त्रयीभुवाम-त्रयोऽवयवा अस्या इति त्रयी जगतां भुवनानां त्रयो जगत्त्रयी, तस्या भवन्त्युत्पद्यन्ते इति जगत्त्रयीभुवस्तेषान्तथा भुवनत्रयजातवस्तूनामित्यर्थः / “स्याल्लोको विष्टपं विश्व भुवनं जगती जगत्” 6 / 1 // इत्यभिधानचिन्तामणिः / रमा:-श्रियः / “लक्ष्मीः पद्मा रमा या मा सा ता श्रीः कमलेन्दिरा” 2 / 140 // इत्यभिधानचिन्तामणिः / इव-यथा / सरागाः-रागेण अनुरागेण -सहिताः सरागाः / “रागोऽनुरागे क्लेशादौ मात्सर्ये लोहितादिषु” इति शाश्वतः / समाः-सकलाः,