________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [ 67 महीभृतस्तस्य च मन्मथश्रिया, विभूषितस्य स्वपुराद विनिर्गमे / मृगेक्षणानां स्वगवाक्षपक्षतः, कटाक्षलक्षाः प्रकटीवभूविरे // 107 // अन्वयः-च, मन्मथश्रिया, विभूषितस्य, तस्य, महीभृतः, स्वपुरात , विनिर्गमे, मृगेक्षणानाम्, स्वगवाक्षपक्षतः, कटाक्षलक्षाः, प्रकटीबभूविरे // 107 // वृत्तिः-च-पादपूरणे / अवधारणार्थकत्वस्वीकारे च प्रकटीबभूविरे इत्यस्याग्रे च इत्यन्वेयम् / “चान्वाचये समाहारेऽप्यन्योन्यार्थे समुच्चये / पक्षान्तरे तथा पादपूरणेऽप्यवधारणे” इति मेदिनी / मन्मथश्रिया-मननं मव शास्त्राद्यभ्यासजन्यं ज्ञानम् तत् मध्नाति विलोडयति विनाशयतीति यावत् मन्मथो मदनः, काम इतियावत् , तस्य श्रीःशोभा मन्मथश्रीस्तया तथा / “मदनो जराभीरुरनङ्गमन्मथौ, कमनः कलाकेलिरनन्यजोऽङ्गजः / मधुदीपमारौमधुसारथिः स्मरो, विषमायुधो दर्पककामहृच्छयाः" 2 / 141 / / इत्यभिधानचिन्तामणिः। विभूषितस्य-समलङ्कृतस्य, शुशोभितस्येति यावत् / तस्य-प्रस्तुतस्य महामहिमशालिनो भगवतः / महीभृतः-महीं पृथिवीं बिभर्ति धारयतीति महीभृत् तस्य तथा, राज्ञः श्रीमतः शान्तिनाथस्येति यावत् / स्वपुरात-स्वस्य आत्मनः पुरम्-नगरम् राजधानी हस्तिनापुरमितियावत् स्वपुरम् तस्मात्तथा / विनिर्गमे-विनिर्गमनं बहिनिःसरणमिति विनिर्गमस्तस्मिँस्तथा मृगेक्षणानाम्-मृगस्य हरिणस्य ईक्षणे नयने मृगेक्षणे, मृगेक्षणे इव ईक्षणे यासान्ता मृगेक्षणास्तासान्तथा / “उष्ट्रमुखादयः' 3 / 1 / 23 / / इत्यनेन समासः, एकस्य ईक्षणपदस्य लोपश्च / स्वगवाक्षपक्षतः-गवां किरणानामक्षीव गवाक्षः “अक्ष्णोऽप्राण्यङ्गे"७३॥८५।। इत्यट्समासान्तः “गोर्नाम्न्यवोऽझे" 1 / 2 / 28 // इत्यनेन अवादेशः, स्वस्य-आत्मनः स्वः-स्वीयो वा गवाक्षः स्वगवाक्षः, तस्य पक्ष. पार्श्वः स्वगवाक्षपक्षस्तस्मात्तथा / "स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने" इत्यमरनानार्थः / “पक्षो मासार्द्धके पाणिग्रहे साध्यविरोधयोः / केशादेः परतो वृन्दे, बले सखिसहाययोः चुल्लीरन्ध्र पतत्रेच, वाजे कुम्जरपार्श्वयोः" इति मेदिनी / “वातायनो गवाक्षश्च जालके" 4 / 7 / 8 / / इत्यभिधानचिन्तामणिः / कटाक्षलक्षाः-कटस्य कपोलस्याऽक्षि कटाक्षः “संकटाभ्याम्" 733 // 86 // इत्यत्समासान्तः तस्य लक्षाः-लक्षसंख्याः कटाक्षलक्षाः / “अथार्धवीक्षणम् / अपाङ्गदर्शनम् काक्षः कटाक्षोऽक्षिविकूणि. तम्" 3 / 242 / / इत्यभिधानचिन्तामणिः / प्रकटीवभूविरे-प्रकाशीभूता // 107 // दृशाऽनिमेषेण पदास्पृशा पदा, निजस्य चित्तस्य च तं प्रतीच्छया / विलासिनीनां हृदये रतिः स्वतः, स्फुटाबभूवाद्भूतरूपसम्पदा // 108 // अन्वयः-अनिमेषेण, दृशा, पदास्पृशा, पदा, च निजस्य, चितस्य; तम् , प्रति; इच्छया, विलासिनीनाम, हृदये, अद्भुतरूपसम्पदा, स्वतः रतिः, स्फुटीबभूव // 108 //