________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे रूपं रत्नम् अप्रयत्नोदितचक्ररत्नम् तत् बिभर्ति धारयतीति अप्रयत्नोदितचक्ररत्नभृत स चासौ नृपो राजा अप्रयत्नोदितचक्ररत्नभृन्नृपस्तस्य अधिरोहस्तस्मिँस्तथा, सतीतिशेषः / हयः-अश्वः / चलन्-गच्छन् / परम्-केवलम् / परः श्रेष्ठारिदूरान्योत्तरे क्लीबन्तु केवले" इति मेदिनी / बालचापलम्-बालस्य कुमारस्य सहजम् तच्च तच्चापलं चाश्चल्यं बालचापलम् “मयूरव्यंसकेत्यादयः” 3 / 1 / 116 / / इत्यनेन समासः शाकपार्थिवादेराकृतिगणत्वाव पूर्वसमासीयोत्तरपदलोपश्च / पराकृत्य-दूरीकृत्य / अत्र-अस्मिँल्लोके / दिशाम्-आशानाम् / जयी-विजयी / भव-जायस्व / इति-इत्येवंप्रकारेण / अनागसे-अपराधाभावाय / नीतिप्रवर्तनायेति यावत् / शंसति-कथयति / / 105|| श्रयोऽबला नाम चलाचला इमा,भ्रमान्न ताः स्थैय्यभृतः क्वचिन्मताः। इतीव बाहः किमिवाह भूभृते, पुनः पुनः पुच्छविलोलनच्छलात् // 106 // अन्वयः-नाम, इमाः, श्रियः, अबलाः, चलाचलाः, ताः, भ्रमात् , (अपि) क्वचित् , स्थैर्यभृतः, न, मताः, इतीव, वाहः, पुनः पुनः, पुच्छविलोलनच्छलात् , इव, भूमृते, आह, किम् // 106 // वृत्तिः-नाम-कोमलामन्त्रणे / इमाः-प्रत्यक्षं दृश्यमाना इव / सन्निकृष्टतया दृश्यमाना वा। "इदमस्तु सन्निकृष्टे समीपतरवर्ति चैतदो रूपम्" इत्याधभियुक्तोक्त्या इदम्-शब्दस्य सन्निकृष्टार्थकत्वाद / श्रियः-लक्ष्म्यः सम्पत्तयो वा / "शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिव कथ्यते' इति यादवः / अबला:-नास्ति बलमासामिति अबलाः नार्यः / अत एवेति शेषः / चलाचला:-चलाः, चञ्चला इति यावत् / “स्त्री नारी वनिता वधूः / वशा समिन्तिनी वामा वर्णिनी महिलाऽबला" 3 // 168 / इत्यभिधानचिन्तामणिः / ता:-श्रियः। भ्रमात-भ्रान्तेः / भ्रान्तिवशादपीति भावः / क्वचित-कुत्रापि / कस्मिंश्चिद स्थलेऽपीति यावत् / स्थैर्यभृतः स्थैर्य स्थिरतां बिभ्रति धारयन्तीति स्थैर्यभृतः। स्थिरतयाऽवस्थानशीलाः इति यावद / न-नहि / मता:-प्रतिपादिताः / विद्वद्भिरितिशेषः / इतीव-इत्येवं प्रकारेणेव / वाह:-अश्वः / “घोटकस्तुरगस्ताय॑स्तुरङ्गोऽश्वस्तुरङ्गमः / गन्धर्वोऽर्वा सप्तिवीती वाहो वाजी हयो हरिः” 4 / 299 // इत्यभिधानचिन्तामणिः / पुनःपुन:-मुहुर्मुहुः, वारंवारम्, अनेकधेतियावत् / पुच्छविलोलनच्छलात्-पवते दंशादीनुत्सारयतीति पुच्छम् वालधिः, लालमितियावत् , तस्य बिलोलनम् विशेषेण सञ्चालनम् पुच्छविलोलनम् तदेव तस्य वा छलम् व्याजः, व्यपदेश इति यावद पुच्छविलोलनच्छलम् तस्मात्तथा "कपट कैतवं दम्भः कूटं छद्मोपधिश्छलम् / व्यपदेशो मिषं लक्षं निभं व्याजः" 3 // 42 // इत्यभिधानचिन्तामणिः / इव-यथा / भूभृते-मुवं पृथिवीं बिभर्ति धारयति पालयतीति वा भूभृव राजा तस्मै तथा / राजचक्रवर्तिने भगवते श्रीमच्छान्तिनाथायेति यावत् / आहकथयति, ब्रवीतीति यावत् / किम्-वितर्केऽव्ययम् / 'किं कुत्सायां वितर्के च निषेधप्रश्नयोरपी'ति मेदिनी // 106 / /